तपस्विनी, स्त्री, जटामांसी । इत्यमरः । २ । ४ । १३४ ॥ (तपस्वितुल्यजटायुक्तत्वादस्यास्तथात्वम् । यथा, वैद्यकरत्नमालायाम् । “नलदं नन्दिनी पेषी मांसी कृष्णजटा जटी । किरातिनी च जटिला लोमशा तु तपस्विनी ॥”) कटुरोहिणी । इति हेमचन्द्रः ॥ महाश्राव- णिका । इति भावप्रकाशः ॥ (तपोऽस्या अस्तीति । तपस् + “तपःसहस्राभ्यां विनीनी ।” ५ । २ । १०२ । इति विनिः । ततः स्त्रियां ङीप् ।) तपोयुक्ता स्त्री ॥ (यथा, रामायणे । ३ । २ । ७ । “पत्नीं स च महावृद्धां सिद्धां शुद्धां तपस्विनीम् । अनसूयां महाभागां सर्व्वभूतहिते रताम् ॥” दीना । दुःखिता । यथा, भागवते । १ । ९ । ४४ । “ततो युधिष्ठिरो गत्वा सहकृष्णो गजाह्वयम् । पितरं सान्त्वयामास गान्धारीञ्च तपस्विनीम् ॥” पतिव्रता । यथा, नैषधे । १ । १३५ । “मदेकपुत्त्रा जननी जरातुरा नवप्रसूतिर्व्वरटा तपस्विनी । गतिस्तयोरेष जनस्तमर्द्दय- न्नहो विधे ! त्वां करुणा रुणद्धि न ॥” “वरटा हंसी मम स्त्री नवा नूतना प्रसूतिः प्रसवो यस्यास्तादृशी सापि स्वतो जीवितुमस- मर्था तर्हि पत्यन्तरेण तस्या जीविका भवे- दित्यपि निषेधयति यतस्तपस्विनी पतिव्रता मम मरणानन्तरं पत्यन्तराश्रयणाभावात् तस्या जीवनं शिशूनां पोषणञ्च दुर्घटमेव भवेदिति भावः ॥” इति तट्टीका ॥)
📄 मूल मुद्रित पृष्ठ (2-588-a) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।