तप्तमाषकं, क्ली, (तप्तं माषमितं सुवर्णादिकं यत्र कप् ।) परीक्षाविशेषः । तद्विधिर्यथा । पितामहः । “कारयेदायसं पात्रं ताम्रं वा षोडशाङ्गुलम् । चतुरङ्गुलखातन्तु मृण्मयं वाथ मण्डलम् ॥ मण्डलं सूर्य्यमण्डलाकारं वर्त्तुलमिति यावत् । पूरयेद्घृततैलाभ्यां विंशत्या तु पलैस्तु तत् । सुवर्णमाषकं तस्मिन् सुतप्ते निःक्षिपेत्ततः ॥ [] अङ्गुष्ठाङ्गुलियोगेन उद्धरेत्तप्तमाषकम् । कराग्रं यो न धुनुयात् विस्फोटो वा न जायते । शुद्धो भवति धर्म्मेण पितामहवचो यथा ॥ कल्पान्तरमाह । सौवर्णे राजते ताम्रे आयसे मृण्मयेऽपि वा । गव्यं घृतमुपादाय तदग्नौ तापयेच्छुचिः ॥ सौवर्णीं राजतीं ताम्रीमायसीञ्च सुशोधिताम् । सलिलेन सकृद्धौतां प्रक्षिपेत्तत्र मुद्रिकाम् ॥ भ्रमद्वीचितरङ्गाढ्ये न नस्वस्पर्शगोचरे । परीक्षेतार्द्रपर्णेन चुचुकारं सघोषकम् ॥ ततश्चानेन मन्त्रेण सकृत्तदभिमन्त्रयेत् । परं पवित्रममृतं घृत ! त्वं यज्ञकर्म्मसु ॥ दह पावक ! पापं त्वं हिमशीतः शुचौ भव । उपोषितं ततः स्नातमार्द्रवाससमागतम् ॥ ग्राहयेन्मुद्रिकां तान्तु घृतमध्यगतान्तथा । प्रदेशिनीञ्च तस्याथ परीक्षेयुः परीक्षकाः ॥ यस्य विस्फोटका न स्युः शुद्धोऽसावन्यथाशुचिः ॥ प्रयोगस्तु । मध्यविधाष्टयवतण्डुलमध्यमिता- ङ्गुलिषोडशाङ्गुलमितप्रस्तारे तथाविधाङ्गुलि- चतुष्टयखाते ताम्रादिघटितेऽशक्तौ मृण्मये वा चक्राकारे वर्त्तुले पात्रे लौकिकाष्टरत्तिकाधिक- माषद्बयाधिकत्रयस्त्रिंशत्तोलकरूप- ३३ । २ । ८ । वैदिकपलदशकमितं घृतं एवं तैलञ्च निक्षिप्य लौकिकचतुरत्तिकाधिकपञ्चमाषक- षट्षष्टितोलकरूप- ६६ । ५ । ४ । वैदिकविंशति- पलपरिमितं केवलं गव्यं घृतं वा निक्षिप्य तस्मिन् सुतप्ते सकृद्धौतां पञ्चरत्तिकामितां काञ्चनमुद्रिकां रजतादिकां वा निक्षिपेत् । धर्म्मावाहनादिहवनान्तं तुलोक्तं सदक्षिणं कर्म्म कृत्वा, -- ओम् परं पवित्रममृतं ! घृत त्वं यज्ञकर्म्मसु । दह पावक ! पापं त्वं हिमशीतः शुचौ भव ॥ इत्यनेनाभिमन्त्रयेत् प्राड्विवाकः । ततः कृतोप- वासः स्नातार्द्रवासाः शोध्यशिरसि प्रतिज्ञापत्रं निधाय, -- ओम् त्वमग्ने ! सर्व्वभूतानामन्तश्चरसि पावक ! । साक्षिवत् पुण्यपापेभ्यो ब्रूहि सत्यं करे मम ॥ इत्यनेनाभिमन्त्र्य आर्द्रपत्रनिक्षेपकृतचुचुक- शब्दात् घृतात् मुद्रिकां तर्ज्जन्यङ्गुष्ठाभ्यां उत्तो- लयेत् । घृततैलाभ्यां वा तप्तमाषकमुत्तोलयेत् । अदग्धञ्चेत्तदा शुद्ध इति । ततो दक्षिणां दद्यात् ॥” इति दिव्यतत्त्वम् ॥
📄 मूल मुद्रित पृष्ठ (2-589-a) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।