🕉️ 20 November 2026, Friday · 07:54:12 AM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

तरवारि
taravāri
🟠 शब्दसागर🔵 मोनियर-विलियम्स🟣 आप्टे🟢 वाचस्पत्यम्🟤 शब्दकल्पद्रुम
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
तरवारि संज्ञा पुं॰ [सं॰] खड्प का एक भेद । तलवार । उ॰—रोष न रसना जनि खोलिए बरु खोलिए तरवारि ।—तुलसी (शब्द॰) ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
तर—वारि m. (L.; for तल-व्˚?) a one-edged sword, Hcar. vi; Kalyāṇam.; Pañcad. ii, 77
cf. तल-वारण.
📄 मूल मुद्रित पृष्ठ (438,3)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟣 आप्टे संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
स्रोत: V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
तरवारि पु० तरं शत्रूणां गतिं वारयति वृ--णिच्--इन् । खड्गभेदे । (तरवार) इति भाषा । हेमच० असिशब्दे ५५१ पृ० तल्लक्षणादिकमुक्तं युक्तिकल्पतरावत्र विशेष उक्तो यथा “अङ्गं रूपं तथा जातिर्नेत्रारिष्टे च भूमिका । ध्वनिर्म्मानमिति प्रोक्तं खड्गज्ञानाष्टकं शुभम् । अभिन्ने दृश्यते यादृक् विभिन्ने घटिते तथा । यदेव दृश्यते चिह्नं तदङ्गं संप्रचक्षते । नीलकृष्णादिकं खड्गे रूप- मित्यभिधीयते । तेनैव यत् प्रतीतं स्यात् तज्ज्योति- रिति गद्यते । अङ्गातिरिक्तं यज्जातिस्तन्माहात्म्योप- सूचकम् । तन्नेत्रमिति जानीयात् खडगे खड्गविशा- रदाः । अङ्गातिरिक्तं खड्गादि यच्छुद्धत्वोपसूचकम् । तदरिष्टमिति प्राहुर्भूमिरङ्गादिधारणम् । यः खड्गे जायते शब्दो दण्डदन्तादिना हते । स ध्वनिस्तुलना [] मानं ज्ञानमष्टविधन्त्विदम् । पञ्चाद्या निपुणेः खड्गे सम्भाव्यन्तेऽपि कृत्रिमाः । अन्त्यावकृत्रिमौ ज्ञेयौ तावेव सहजाविति । शतमङ्गानि चत्वारि रूपाणि जातयस्तथा । त्रिंशन्नेत्राणि जानीयादरिष्टानां तथैव च । भूमिश्च द्विविधा ज्ञेया ध्वनिरष्टविधो मतः । मानन्तु द्विविधं प्रोक्तमित्येषां संग्रहो मतः” । खड्गस्य शताङ्गनामानि लौहार्णवे “रूप्यस्वर्णगजोरुवूकद- मनस्थूलाङ्गकृष्णारुणश्वेताम्भोजगदातिलानलकणाग्रन्थि- स्थिरातैत्तिराः । मालाजीवकषट्पदोर्द्ध्वमरिचव्यालाश्वब- र्हाञ्जनक्षौद्रक्षुद्रकमक्षिकातुषयवव्रीहिक्षुमासर्षपाः । सिं- हीतण्डुलगोसिराशिवनखग्राहाक्षिकेशोपलद्रोणीकाकक- पालपत्रतुवरीविम्बीफलीसर्षपाः । नीलीरक्तवचारसोनसु- मनाजिङ्गीशमीरोहितप्रोष्ठीमारिषभार्गवीखुरतडिन्मेघाद्रि- गुञ्जाशराः । दूर्व्वाविल्वमसूरटुण्टुकशठीमार्ज्जारिकाके- तकीमूर्व्वावज्रकलायचम्पकबलान्यग्रोधवंशासनाः । ज्येष्ठी- जालपीपिलिकानलरजःकुष्माण्डरोमस्नुहीकर्कन्धूबकुला- रनालमहिषस्वच्छर्जुवक्रा इति । प्रोक्ता लौह- विशारदेन मुनिना खड्गस्य भेदाः क्रमात्” । तस्य चत्वारि रूपाणि । “नीलः कृष्णश्च पिङ्गश्च धूम्रश्चेति चतुर्विधः । वर्णप्रकर्षः खड्गानां कथितो मुनिपुङ्गवैः” । चतस्रो जातयः । “व्राह्मणः क्षत्रियो वैश्यः शूद्रश्चेति चतुर्विधः । जातिभेदे विनि- र्दिष्टः खड्गानां मुनिपुङ्गवैः” । त्रिंशन्नेत्राणि । “चक्रं पद्मं गदा शङ्खो डमरुर्द्धनुरङ्कुशः । छत्रं पताका वीणा च मत्स्यलिङ्गध्वजेन्दवः । कुम्भः शूलञ्च शार्द्दूलः सिंहः सिंहासनं गजः । हंसो मयूरो जिह्वा च दशनः खड्ग एव च । पुत्रिका चामरं शैलः पुष्पमाला भुजङ्गमः । त्रिंशदेतानि नेत्राणां खड्गानां कथितानि वै” । त्रिंशदरिष्टानि “छिद्रं काकपदं रेखाभिन्नं भेकश्च मूषिकः । विडालः शर्करा नीली मशको भृङ्गसूचिके । त्रिविन्दुः कालिका दारी कपोतः काक एव च । खर्परः शकली क्रोडी कुशपत्रक जालिके । करालकङ्कखर्जूरशृङ्गपुच्छखनित्रकम् । लाङ्गलं वडिशाख्यञ्च मुनिना तत्त्ववेदिना । प्रोक्तान्ये- तान्यरिष्टानि खड्गानां त्रिंशदेव हि” । द्विविधा भूमिः “दिव्यभौमविभागेन भूमिस्तु द्विविधा भवेत्” । अष्टधा ध्वनिः । “हंसकांस्याभ्रढक्कानां काकतन्त्री खराश्मनाम् । ध्वनयोऽष्टविधाः प्रोक्ता नागार्जुन [] मुनेर्मताः” । द्विविधं मानम् । “उत्तमाधमभेदेन मानं तद्द्विविधं भवेत् । इति प्रोक्तानि सूत्राणि खड्गानां ज्ञानहेतवे । एतानि तत्त्वतो ज्ञात्वा भवे- न्नृपतिपूजितः” सूत्राध्यायः । “तत्र प्रथमतो- ऽङ्गानां लक्षणानि निवोधत” । लौहदीपे “रूप्यपत्र- समां भूमिरङ्गं श्वेतं प्रतीयते । ऊर्द्धं तत्तु महा- मूल्यं रूप्यवज्रमुशन्ति तम् । एष खड्गवरो दद्या- ल्लक्ष्मीमायुर्यशो बलम् १ । स्वर्णरेखाबली तन्वी यद्- भूमौ निकषोपमा । स्वर्णवज्रमित
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬 ज्योतिषीय प्रश्न पूछें