तामसकील पु० तामसः राहुसुतः कील इव । वृ० स० ३ अ० उक्ते राहुसुते केतुभेदे । तन्निमित्तोत्पातभेदस्तत्रोक्तो यथा “तामसकीलसङ्ज्ञका राहुसुताः केतवस्त्रयस्त्रिंशत् । वर्णस्थानाकारैस्तान्दृष्ट्रार्के फलं ब्रूयात् । ते चार्क- मण्डलगताः पापफलाश्चन्द्रमण्डले सौम्याः । ध्वाङ्क्षा- कबन्धप्रहरणरूपाः पापाः शशाङ्केऽपि । तेषामुदये रूपाण्यम्भः कलुषं रजोवृतं व्योम । नगतरुशिख- [] रविमर्दी सशर्करो मारुतश्चण्डः । ऋतुविपरीतास्त- रवो दीप्ता मृगपक्षिणो दिशां दाहः । निर्घातम- हीकम्पादयो भवन्त्यत्र चोत्पाताः । न पृथक् फलानि तेषां शिखिकीलकराहुदर्शनानि यदि । तदुदयका- रणमेषां केत्वादीनां फलं ब्रूयात्” । “यस्मिन् यस्मिन् देशे दर्शनमायान्ति सूर्यविम्बस्थाः । तस्मिंस्तस्मिन् व्यसनं महीपतीनां परिज्ञेयम् । क्षुत्प्रम्लानशरीरा मुनयोऽप्युत्सृष्टधर्मसच्चरिताः । निर्मांसवालहस्ताः कृच्छ्रेणायान्ति परदेशम् । तस्करविलुप्तवित्ताः प्रदी- र्घनिःश्वासाकुलिताक्षिपुटाः । सन्तः सन्नशरीराः शोको- द्भववाष्परुद्धदृशः । क्षामा जुगुप्समानाः स्वनृपतिपर- चक्रपीडिता मनुजाः । स्वनृपतिचरितं कर्म च पराकृतं प्रव्रुवन्त्यन्ये । गर्भेष्वपि निष्पन्ना वारि- मुचो न प्रभूतवारिमुचः । सरितो यान्ति तनुत्वं क्वचित् क्वचिज्जायते सस्यम् । दण्डे नरेन्द्रमृत्युर्व्या- धिभयं स्यात् कबन्धसंस्थाने । ध्वाङ्क्षे च तस्करभयं दुर्भिक्षं कीलकेऽर्कस्थे । राजोपकरणरूपैश्छत्रध्वजचा- मरादिभिर्विद्धः । राजान्यत्वकृदर्कः स्फुलिङ्गधूमादि- भिर्जनहा । एको दुर्भिक्षकरो द्व्याद्याः स्युर्नरपते- र्विभाशाय । सितरक्तपीतकृष्णैस्तैर्बिद्धोऽर्कोऽनुवर्णघ्नः । दृश्यन्ते च यतस्ते रविबिम्बस्योत्थिता महोत्पाताः । आगच्छति लोकानां तेनैव भयं प्रदेशेन” । स्वार्थे क तत्रार्थे । त्रिंशत्त्र्यधिकाराहोस्ते तामस- कीलका इति ख्याताः वृ० स० ११ अ० ।
📄 मूल मुद्रित पृष्ठ (3272-a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।