🕉️ 21 November 2026, Saturday · 06:34:11 PM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

तालनवमी
tālanavamī
🟠 शब्दसागर🔵 मोनियर-विलियम्स🟢 वाचस्पत्यम्🟤 शब्दकल्पद्रुम
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
तालनवमी संज्ञा स्त्री॰ [सं॰] भाद्र शुक्ला नवमी । विशेष—इस दिन स्त्रियाँ व्रत रखती और तालपत्र आदि से गौरी का पूजन करती हैं ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
ताल—नवमी f. the 9th day of the light half of month Bhādra (sacred to Durgā), GarP.
📄 मूल मुद्रित पृष्ठ (445,1)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
तालनवमी स्त्री तालोपहारा नवमी शा० त० । भाद्र- शुक्लनवस्यां “मासि भाद्रपदे या स्यान्नवमी बहुलेतरा । [] तस्यां संपूज्य वै दुर्गामश्वमेधफलं लभेत्” । संवत्सरकौ० धृतगरुडपुराणवचनम् इयमेव तालनवमी ख्याता
📄 मूल मुद्रित पृष्ठ (3285-b)
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
तालनवमी, स्त्री, (तालोपहारा नवमी । शाक- पार्थिववत् समासः ।) भाद्रशुक्लनवमी । यथा, “मासि भाद्रपदे या स्यान्नवमी बहुलेतरा । [] तस्यां संपूज्य वै दुर्गामश्वमेधफलं लभेत् ॥” इति संवत्सरकौमुदीधृतगरुडपुराणवचनम् ॥ इयमेव तालनवमी ख्याता ॥ (अस्यां नवम्यां सौभाग्यफलकाङ्क्षिणीभिः स्त्रीभिर्यथाविधानं नारायणं लक्ष्मीञ्च संपूज्य व्रतकथा श्रोतव्या । तत्कथा यथा, -- “मेरुपृष्ठे सुखासीनं कृष्णं कमलया सह । उवाच मधुरं वाक्यं स्मितपूर्व्वं मुदाम्बिका ॥ शृणु मे वचनं देव ! स्त्रीणां सौभाग्यकारणम् । केन वा सुभगा चासीत् केन वा दुर्भगा भवेत् ॥ किं कृतेन विमुच्येत किं कृतेन फलं लभेत् । तन्मे ब्रूहि सुरश्रेष्ठ ! नारीणां कारणं ध्रवम् ॥ श्रीभगवानुवाच । पूर्व्वं हि मम भार्य्ये द्वे सत्यभामा च रुक्मिणी । रुक्मिणी सुभगा साध्वी सत्यभामा च दुर्भगा ॥ तस्याः कर्म्मविपाकेन सौभाग्यमन्यथा गतम् । केनचिद्बाक्यदोषेण सत्यभामा च दुर्भगा ॥ दुःखार्त्ता शोकसन्तप्ता रुदती बहुशो मुहुः । कियत्काले च सम्पन्ने व्रजन्ती च तपोवने ॥ अरण्ये विजने गत्वा कस्मिन्मुनिवराश्रमे । रुदित्वा च विधानेन सर्व्वं दुःखं न्यवेदयत् ॥ तच्छ्रत्वा तु मुनिश्रेष्ठः प्रोवाच रुदतीं शुभाम् । भव्ये पुत्त्रिणि ! मा रोदीः सौभाग्यं ते भविष्यति ॥ सत्यभामोवाच । दुःखं मे बहुशस्तात ! शरीरं दुर्भगं कथम् । कथ्यतां मुनिशार्द्दूल ! स्वामिसौभाग्यकारणम् ॥ मुनिरुवाच । भाद्रे मासि सिते पक्षे नवमी या तीथिर्भवेत् । तस्यां नारायणं लक्ष्मीं पूजयेच्च विधानतः ॥ सत्यभामोवाच । विधानं कीदृशं तस्य किं दानं किञ्च पूजनम् । तन्मे ब्रूहि मुनिश्रेष्ठ ! कारणं किन्तदुच्यताम् ॥ मुनिरुवाच । स्थण्डिले मण्डलं कृत्वा घटं तत्र निवेशयेत् । तत्र नारायणं लक्ष्मीं गन्धपुष्पादिनार्च्चयेत् ॥ नैवेद्येन सदा भक्त्या पूजयेत् भक्तवत्सलाम् । तालेन पूजयेत् देवीं तालेनैव विनिर्म्मितम् ॥ तस्ये तत् पिष्टकं दत्त्वा ब्राह्मणायोपपादयेत् । गन्धमाल्यैः समभ्यर्च्च्य विप्रहस्ते समर्पितम् ॥ स्वस्तीति ब्राह्मणो ब्रूयात् व्रतं साङ्गं समाचरेत् । एवं क्रमेण साध्वीभिः कर्त्तव्यमतियत्नतः ॥ नवमं वत्सरं यावत् मासि भाद्रपदे तथा । पुत्त्रपौत्त्रैः परिवृता सौभाग्यमतुलं भवेत् ॥ धनधान्यसमृद्धिञ्च अवैधव्यञ्च नित्यशः । अभीष्टफलमाप्नोति नवमीव्रतकारणात् ॥ सम्पूर्णे तु व्रते भूते प्रतिष्ठां तदनन्तरम् । विप्राय दक्षिणा देया सुभोज्यञ्च विधानतः ॥ एवं कुरु सदा विज्ञे ! शृणु भाषणमुत्तमम् ॥ तथा चक्रे च सा साध्वी मुनेर्व्वचनगौरवात् । व्रते सम्पूर्णतां याते केशवस्तामुपागतः ॥ उवाच प्रहसन् देवो वचनं मधुरं शुभम् । असौभाग्येन यद्दुःखं तत् ते सर्व्वं विनश्यतु ॥ [] सौभाग्यमतुलं प्राप्य यथा गौरी हरस्य च । शचीव पुरुहूतस्य रतीव मदनस्य च ॥ यथा नारायणे लक्ष्मीस्तथा त्वं भव शोभने ! । इति तस्यै वरं दत्त्वा गृहीत्वा तां पुरं ययौ ॥ इदं या कुरुते साध्वी व्रतं सा सुभगा भवेत् । एवं व्रतञ्च या नारी करोति धर्म्मतत्परा ॥ तस्याश्च भवने लक्ष्मीश्चञ्चला निश्चला भवेत् । जन्मान्तरे भवेत् साध्वी अवैधव्यं सदा पुनः ॥ पत्युश्च सुभगा साध्वी पुत्त्रपौत्त्रान्निता भवेत् । धनधान्यसमृद्धिञ्च ततो मोक्षमवाप्नुयात् ॥” इति भविष्यपुराणोक्ततालनवमीव्रतकथा समाप्ता ॥ * ॥ व्रतेऽस्मिन् नवफलानि दातव्यानि । तानि यथा, -- “पिण्डखर्ज्जूरं जातिश्च एला चैव हरीतकी । नारिकेलं तथा पूगं रम्भापक्वफलन्तथा । तत्र मुख्यं प्रदातव्यं तालस्य फलमुत्तमम् ॥” * ॥)
📄 मूल मुद्रित पृष्ठ (2-613-b)
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬 ज्योतिषीय प्रश्न पूछें