तालुपाक पु० सुश्रुदोक्ते तालुगते रोगभेदे । तालुगतास्तु गलशुण्डिका तुन्दिकेर्य्यऽध्रुषो मांसकच्छ- पोऽर्वुदं मांससङ्घातस्तालुपुष्पुटस्तालुशोषस्तालुपाक इति । “श्लेष्मासृग्भ्यां तालुमूलात्प्रवृत्तो दीर्घः शोफो ध्मातवस्तिप्रकाशः । तृष्णाकासश्वासकृत् सम्प्रदिष्टो व्याधि- र्वैद्यैः कण्ठशुण्डीति नाम्ना । शोफःस्थूलस्तीददाहप्र- पाकी प्रागुक्ताभ्यां तुण्डिकेरी मता तु । शोफः स्तब्धो लोहितस्तालुदेशे रक्ताज्ज्ञेयः सोऽध्रुषोरुग्ज्वराढ्यः । कूर्म्मोत्सन्नोऽवेदनोऽशीघ्रजन्मा रक्तो ज्ञेयः कच्छपः श्लेष्मणा स्यात् । पद्माकारं तालुमध्ये तु शोफं विद्या- द्रक्तादर्बुदं प्रोक्तलिङ्गम् । दुष्टं मांसं श्लेष्मणा नीरु- जञ्च ताल्वन्तस्थं मांससङ्घातमाहुः । नीरुक् स्थायी कोल- मात्रः कफात्स्यान्मेदोयुक्तात्पुष्पुटस्तालुदेशे । शोषोऽ- त्यर्थं दीर्य्यते चापि तालु श्वासो वातात्तालुशीषः स पित्तात् । पित्तं कुर्य्यात्पाकमत्यर्थघीरं तालुन्येनं तालुपाकं वदन्ति” तेषां लक्षणान्युक्तानि ।
📄 मूल मुद्रित पृष्ठ (3287,a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।