तिन्दुकं, क्ली, (तिन्दुरिव कायतीति । कै + कः ।) कर्षपरिमाणम् । इति वैद्यकपरिभाषा ॥ (यथा, शार्ङ्गधरे पूर्व्वखण्डे १ अध्याये । “कोलद्बयञ्च कर्षः स्यात् स प्रोक्ता पाणि- मालिका । अक्षः पिचुः पाणितलं किञ्चिपाणिश्च तिन्दु- कम् ॥” यथास्य पर्य्यायाः । “विद्याद्द्वौ द्रंक्षणौ कर्षं सुवर्णञ्चाक्षमेव च । विडालपदकन्तच्च पिचुम्पाणितलन्तथा ॥ [] तिन्दुकञ्च विजानीयात् कवडग्रहमेव च ॥” इति कल्पस्थाने द्बादशेऽध्याये चरकेणोक्तम् ॥)
तिन्दुकः, पुं, स्त्री, (तिन्दु + स्वार्थे संज्ञायां वा कन् ।) वृक्षविशेषः । गाव् इति ख्यातः । इत्यमरटीकासारसुन्दरी ॥ केन्दूकवृक्षः । इति भरतः ॥ इति राजनिर्घण्टश्च । तेँदु इति भाषा ॥ तत्पर्य्यायः । स्फुर्जकः २ कालस्कन्धः ३ शिति- सारकः ४ । इत्यमरः । २ । ४ । ३८ ॥ स्फूर्जकः ५ केन्दुः ६ तिन्दुः ७ तिन्दुलः ८ तिन्दुकिः ९ तिन्दुकी १० । इति शब्दरत्नावली ॥ नील- सारः ११ अतिमुक्तकः १२ स्वर्य्यकः १३ रामणः १४ स्फूर्जनः १५ स्पन्दनाह्वयः १६ कालसारः १७ । (यथा, महाभारते । ३ । ६४ । ३ । “शालवेणुधवाश्वत्थतिन्दुकेङ्गुदकिंशुकैः । अर्ज्जुनारिष्टसंछन्नं स्यन्दनैश्च सशाल्मलैः ॥”) अस्य आमफलस्य गुणाः । कषायत्वम् । ग्राहि- त्वम् । वातकारित्वम् । शीतलत्वम् । लघुत्वञ्च । पक्वफलस्य गुणाः । मधुरत्वम् । स्निग्धत्वम् । दुर्जरत्वम् । श्लेष्मदत्वम् । गुरुत्वम् । व्रणवात- नाशित्वम् । पित्तप्रमेहास्रकारित्वम् । विषद- त्वञ्च । इति राजनिर्घण्टः ॥ पित्तप्रमेहास्र- श्लेष्मन्नाशित्वम् । इति भावप्रकाशः ॥ तत्सारं चिररोगजित् ॥ विश्वतिन्दुकमप्येवं विशेषात् ग्राहि शीतलम् ॥ इति राजनिर्घण्टः ॥
📄 मूल मुद्रित पृष्ठ (2-618-b) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।