🕉️ 28 November 2026, Saturday · 09:49:59 AM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

तिथिकृत्य
tithikṛtya
🟠 शब्दसागर🟢 वाचस्पत्यम्
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
तिथिकृत्य संज्ञा पुं॰ [सं॰] विशेष तिथि पर किया जानेवाला धार्मिक कृत्य [को॰] ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
तिथिकृत्य न० ७ त० । तिथिविहिते कार्य्ये “तिथिकृत्ये च कृष्णादिर्व्रते शुक्लादिरेव च । विवाहादौ स्मृतः सौरः शेषेषु सावनो मतः” मल० त० । तिथिविशेषे कृत्यानि च तिथितत्त्वे कालमाधवीयनिर्णयसिन्धुग्रन्थप्रभृतिनिव- न्धेषु दृश्यानि । तिथिभेदेषु कृत्याकृत्यानि पी० धा० वसिष्ठोक्तानि यथा “नोद्वाहयात्रोपनयप्रतिष्ठासीमन्तचौलाखिलवास्तुकर्म्म । गृहप्रवेशाखिलमङ्गलाद्यं कार्य्यं हि । मासाद्यतिर्थ कदाचित्” । मासाद्यतिथौ शुक्लपक्षपतिपदि अतए कृष्णपक्षप्रतिपद्येतानि कर्म्माणि सुखेन भवन्तीत्यर्थः यद्येषोऽभिप्रायोऽसम्मतः स्यात्तदा पक्षाद्यतिथाविति- ब्रूयात् । “सप्ताङ्गचिह्नानि नृपस्य वास्तुव्रतप्रतिष्ठाखिल- मङ्गलानि । यात्राविवाहाखिलभूषणाद्यं कार्य्यं द्विती- यादिवसे सदैव । सङ्गीतविद्याखिलशिल्पकर्म्मसीमन्त- चौलान्नगृहप्रवेशम् । कार्य्यं द्वितीयादिवसे यदुक्तं सदा गृतीयादिवसेऽपि कार्य्यम् । रिक्तासु विद्युद्बधबन्धशस्त्र- विषाग्निघातादि च याति सिद्धिम् । यन्मङ्गलन्तासु कृतं विमूढैर्विमाशमायाति तदाशु नूनम्” । रिक्तासु चतुर्थीन- वमीचतुर्दशीषु ४ । ९ । १४ । “शुभानि कार्य्याणि चरस्थिराणि चोक्तान्यनुक्तान्यपि यानि तानि । सिद्धिं प्रयान्त्याशु ऋण- प्रदानं विनाशदं नागतिथौ विधेयम् । अभ्यङ्गयात्रा- पितूकर्म्मदन्तकाष्ठं विना पौष्टिकमङ्गलानि । षष्ठ्यां विधेयानि रणीपयोग्यशिल्पानि वस्त्वम्बरभूषणानि । द्वितीयायां तृतीयायां पञ्चम्यां कथितान्यपि । तानि सिघ्यन्ति कार्य्याणि सप्तम्यां निखिलान्यपि । संग्रामयो- ग्याखिलवास्तुशिल्पनृपप्रमोदाखिललेखनानि स्त्रीरत्न- [] कार्य्याखिलभूषणानि कार्य्याणि कार्य्याणि महेशति- थ्याम् । द्वितीयायां तृतीयायां पञ्चम्यां सप्तमीतिथौ । उक्तानि यानि सिध्यन्ति दशम्यां तानि सर्वदा । व्रतो- पवासाऽखिलधर्मकृत्यं सुणोत्सवाद्याऽखिलवास्तुकर्म्म । सं- ग्रामयोग्याखिलवास्तुकर्म्म विश्वे तिथौ सिध्यति शि- ल्पकर्म्म । पृथिव्यां यानि कर्म्माणि घर्म्मपुष्टिः शुभानि च । चरस्थिराणि द्वादश्यां यात्रां नवगृहं विना । विधातृगौरीभुजगभान्वन्तकदिनेषु च । उक्तानि तानि सि- ध्यन्ति त्रयोदश्यां विशेषतः । यज्ञक्रियापौष्टिकम- ङ्गलानि संग्रामयोग्याखिलवास्तुकर्म्म । उद्वाहशिल्पाऽ- खिलभूषणाद्यं कार्य्यं प्रतिष्ठा खलु पौर्णमास्याम् । सदैव दर्शे पितृकर्म्ममुक्त्वा नान्यद्विधेयं शुभपौष्टिकाद्यम् । मूढैः कृतं तत्र शुभोत्सवाद्यं विनाशमायात्यचिराद्भृशं तत्” पी० धा० वसिष्ठवचनम् ।
📄 मूल मुद्रित पृष्ठ (3299-a)
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬