तिथिक्षय पु० तिथीनां तिय्युपलक्षितचन्द्रकलानां क्षयः क्षया- रम्भो यस्मिन् । दर्शे अमावास्यायाम् शब्दार्थकल्प० । ६ त० । तिथीनां नाशे अवमे अवमशब्दे ४३१ पृ० दृश्यम् दिनक्षयादयोऽप्यत्र । “कौर्मे पाद्मेऽपि “द्वौ तिथ्य- न्तावेकवारे यत्र स स्याद्दिनक्षयः” वशिष्ठः “एकस्मिन् सावने त्वह्नि तिथीनां त्रितयं यदा । तदा दिनक्षयः प्रोक्तस्तत्र साहस्रिकं फलम्” । साहस्रिकं फलमिति माङ्गल्येतरवैदिककर्मपरम् । “अधिमासे दिनपाते धनुषि रवौ भानुलङ्घिते मासि । चक्रिणि सुप्ते कुर्य्यान्नो मा- ङ्गल्यं विवाहञ्च” इति भीमपराक्रमात् दिनपाते दिनक्षये रघु० तिथिक्षयानयनञ्च सू० सि० उक्तं यथा “सावनाहानि चान्द्रेभ्यो द्युभ्यः प्रोज्झ्य तिथिक्षयाः” सू० सि० । “चान्द्रेभ्यो द्युभ्यो वक्ष्यमाणचान्द्रदिवसेभ्यः सकाशादित्यर्थः । तिथिषु चान्द्रदिनेषु सावन- दिनानामवशेषतुल्यः क्षयो न्यूनत्वम् । यद्वा तिथिश- ब्देन सावनो दिवसस्तस्य चान्द्रदिवसात् क्षय इति स्वरूपमेव वक्ष्यमाणोपयोगात् परिभाषितम्” रङ्गना० । युगे तत्संख्या सू० सि० उक्ता यथा युग इत्युपक्रमे “तिथिक्षया यमार्थाश्विद्व्यष्टव्योमशराश्विनः” १५०८२१५२ एतन्मिता इत्यर्थः ।
📄 मूल मुद्रित पृष्ठ (3299,a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।