तिन्तिडी, स्त्री, (तिम्यते क्लिद्यते मुखाभ्यन्तर- मनेनेति । तिम + ईकन्प्रत्ययेन तिन्तिडीका । ततः पृषोदरादित्वात् साधुः ।) वृक्षविशेषः । तेँतुल् इति भाषा ॥ तत्पर्य्यायः । चिञ्चा २ अम्लिका ३ । इत्यमरः । २ । ४ । ४३ ॥ तिन्ति- डिकः ४ तिन्तिडीकम् ५ तिन्तिडीका ६ अम्लीका ७ आम्लिका ८ आम्लीका ९ । इति तट्टीका ॥ तिन्तिली १० तिन्तिडिका ११ आब्दिका १२ चुक्रुः १३ चुक्रा १४ चुक्रिका १५ अम्ला १६ अत्यम्ला १७ भुक्ता १८ भुक्तिका १९ चारित्रा २० गुरुपत्रा २१ पिच्छिला २२ यम- दूतिका २३ । इति शब्दरत्नावली ॥ शाक- चुक्रिका २४ सुचुक्रिका २५ सुतिन्तिडा २६ । अस्या आमफलस्य गुणाः । अत्यम्लत्वम् । कफ- पित्तकारित्वञ्च । इति राजनिर्घण्टः ॥ वात- नाशित्वम् ॥ अस्याः पक्वफलस्य गुणाः । दीप- नत्वम् । रुचिकारित्वम् । भेदित्वम् । उष्ण- त्वम् । कफवातनाशित्वञ्च । इति राजवल्लभः ॥ विष्टम्भनाशित्वम् । मधुराम्लत्वम् । पित्तदाहास्र- [] कफदोषप्रकोपणत्वञ्च । पक्वचिञ्चाफलरसगुणाः । मधुराम्लत्वम् । रुचिप्रदत्वम् । शोफपाककर- त्वम् । लेपे व्रणदोषनाशित्वञ्च ॥ अस्याः पत्रस्य गुणाः । शोफरक्तदोषव्यथानाशित्वम् । अस्याः शुष्कत्व क्क्षारस्य गुणः । शूलमन्दाग्निनाशि- त्वम् । इति राजनिर्घण्टः ॥ “अम्लिकायाः फलं पक्वं मर्द्दितं वारिणा दृढम् । शर्करामरिचोन्मिश्रं लवङ्गेन्दूसुवासितम् ॥ अम्लिकाफलसम्भूतं पानकं वातनाशनम् । पित्तश्लेष्मकरं किञ्चित् सुरुच्यं वह्निबोधकम् ॥” इति भावप्रकाशः ॥ वृक्षाम्लम् । इति विश्वः ॥
📄 मूल मुद्रित पृष्ठ (2-618-a) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।