तुङ्गकः, पुं, (तुङ्ग + स्वार्थे संज्ञायां वा कन् ।) पुन्नाग- वृक्षः । इति शब्दरत्नावली ॥ (अरण्यरूप- तीर्थविशेषे, क्ली । यथा, महाभारते । ३ । ८५ । ४६-५४ । “तुङ्गकारण्यमासाद्य ब्रह्मचारी जितेन्द्रियः । वेदानध्यापयत् तत्र मुनीन् सारस्वतः पुरा ॥ तत्र वेदेषु नष्टेषु मुनेरङ्गिरसः सुतः । ऋषीणामुत्तरीयेषु सूपविष्टो यथासुखम् ॥ ओँकारेण यथान्यायं सम्यगुच्चारितेन ह । येन यत् पूर्व्वमभ्यस्तं तत् सर्व्वं समुपस्थितम् ॥ ऋषयस्तत्र देवाश्च वरुणोऽग्निः प्रजापतिः । हरिर्नारायणस्तत्र महादेवस्तथैव च ॥ पितामहश्च भगवान् देवैः सह महाद्युतिः । भृगुं नियोजयामास यजनार्थं महाद्युतिम् ॥ ततः स चक्रे भगवानृषीणां विधिवत्तदा । सर्व्वेषां पुनराधानं विधिदृष्टेन कर्म्मणा ॥ आज्यभागेन तत्राग्निं तर्पयित्वा यथाविधि । देवाः स्वभवनं याता ऋषयश्च यथाक्रमम् ॥ तदरण्यं प्रविष्टस्य तुङ्गकं राजसत्तम ! । पापं प्रणश्यत्यखिलं स्त्रिया वा पुरुषस्य वा ॥ तत्र मासं वसेद्धीरो नियतो नियताशनः । ब्रह्मलोकं व्रजेद्राजन् ! कुलञ्चैव समुद्धरेत् ॥”)
📄 मूल मुद्रित पृष्ठ (2-631-b) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।