🕉️ 21 November 2026, Saturday · 06:46:24 PM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

तुच्छ्य
tucchya
🔵 मोनियर-विलियम्स🟣 आप्टे🟢 वाचस्पत्यम्
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
तुच्छ्य mfn. empty, vain, RV. v, 42
तुच्छ्य n. emptiness, x, 129.
📄 मूल मुद्रित पृष्ठ (450,1)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟣 आप्टे संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
तुच्छ्य a. Ved. Void, empty.
📄 मूल मुद्रित पृष्ठ (0541-a)
स्रोत: V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
तुच्छ्य न० तुच्छ--वेदे स्वार्थे इवार्थे वा यत् । १ तुच्छशब्दार्थे २ तुच्छ- कल्पे च “तम आसीत्तमसागूढमग्रेऽप्रकेतं सलिलं सर्वमा इदम् । तुच्छ्येनाभ्वपिहितं यदासीत्तपसस्तन्महिना जायतैकम्” ऋ० १० । १२९ । ३ अयमर्थः । ननूक्तप्रकारेण यदि पूर्वमिदं जगन्नासीत् कथं तर्हि तस्य जन्म? जायमानस्य जनिक्रियायां कर्तृत्वेन कारकत्वात् का- रकं च कारणावान्तरविशेष इति कारकस्य सतो नियतपूर्वक्षणवर्तित्वस्यावश्यम्भावात् । अथैतद्दोषपरि जिहीर्षया जनिक्रियायाः प्रागपि तद्विद्यत इत्युच्यते कथं तस्य जन्म? अत आह । तमसागूढमग्र अग्रे सृष्टेः, प्राक् प्रलयदशायां भूतभौतिकं सर्वं जगत्तमसा- गूढम् । यथा नैशं तमः सर्वपदार्थजातमावृणोति तद्वत् आत्मतत्त्वस्यावरकत्वान् मायापरसं ज्ञं भावरूपा- ज्ञानमत्र तम इत्युच्यते । तेन तमसा निगूढं संवृतं कारणभूतेन तेनाच्छादितं भवति । छादकात्तस्मात्तमसो नामरूपाभ्यां यदाऽविर्भवनं तदेव तस्य जन्मेत्युच्यते । एतेन कारणावस्थायामसदेव कार्य्यमुत्पद्यत इत्यसद्वादि- नोऽसत्कार्य्य वादिनो ये मन्यन्ते ते प्रत्याख्याताः । ननु- कारणे तमसि तज्जगदात्मकं कार्य्यं विद्यते चेत् कथं नासीद्रज इत्यादि निषेधः । तत्राह तभ आसीदिति । तमोभावरूपाज्ञानं मूलकारणं तद्रूपता तदात्मनाम् । यतः सर्वं जगत् प्राक् तम आसीदतो निषिध्यत इत्यर्थः । नन्वावरकत्वादावरकं तमः कर्त्तृ आवार्य्यत्वा- ज्जगत् कर्म्म । कथं तयोः कर्म्मकर्त्त्रोस्तादात्म्यम् । तत्राह अप्रकेतमिति । अप्रकेतमप्रज्ञायमानम् । अय- मर्थः । यद्यपि जगतस्तमसश्च कर्म्मकर्त्तृभावोयौक्तिको न विद्यते तथापि व्यवहारदशायामिव तस्यां दशायां नामरूपाभ्यां विस्पष्ट न ज्ञायत इति तादात्म्यवर्णनम् । अतएव मनुना स्मर्यते “आसीदिदं तमोभूतमप्रज्ञातम- लक्षणम् । अप्रतर्क्यमनिर्देश्यं प्रसुप्तमिव सर्वतः” इति । कुतो वा न प्रज्ञायते तत्राह सलिलम् । सल--गतौ । औणादिक इलच् । इदं दृश्यमानं सर्वं जगत् सलिलं कारणेन संगतमविभागापन्नम् आसीत् । अस्तेर्लङि तिपि बहुलं छन्दसीतीडभावे हल्ङ्याब्भ्य इति [] तिलोपे तिप्यनस्तेः पा० इति पर्य्युदासाद्दकाराभावः । यद्वा सलिलमिति लुप्तोपमम् । सलिलमिव! यथा क्षी- रेणाविभागापन्नं नीरं दुर्विज्ञानं तथा तमसाऽविभा- गापन्नंजगन्न शक्यं विज्ञातुमित्यर्थः । ननु विविधविचित्र० रूपभूयसः प्रपञ्चस्य कथमतितुच्छेन तमसा क्षीरेण नीरस्येवाभिभवः । तथा तमोऽपि क्षीरवद्वलवदित्ये- वोच्यते । तर्हि दुर्बलस्य जगतः सर्गसमयेऽपि नोद्भवस- म्भव इत्यत आह तुच्छ्येनेति । आसमन्ताद्भवतीत्याभु तुच्छ्येन । छन्दसो यकारोपजनः । तुच्छ्येन तुच्छ- कल्पेन सदसद्विलक्षणेन भावरूपाज्ञानेनापिहितं छादि- तमासीत्” भाष्यम् ।
📄 मूल मुद्रित पृष्ठ (3323-a)
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬 ज्योतिषीय प्रश्न पूछें