तुरुष्कः, पुं, गन्धद्रव्यभेदः । शिलारस इति ख्यातः । तत्पर्य्यायः । यवनः २ धूम्रः ३ धूम्र- वर्णः ४ सुगन्धिकः ५ सिह्लकः ६ सिह्लसारः ७ पीतसारः ८ कपिः ९ पिण्याकः १० कपिजः ११ कल्कः १२ पिण्डितः १३ पिण्डितैलकः १४ करेवरः १५ कृत्रिमकः १६ लेपनः १७ सिह्लः [] १८ कपिचञ्चलः १९ यावलः २० तैलाख्यः २१ पिण्डिकः २२ जावः २३ यावतः २४ । इति शब्दरत्नावली ॥ * ॥ अस्य गुणाः । सुरभित्वम् । तिक्तत्वम् । कटुत्वम् । स्निग्धत्वम् । कुष्ठकफ- पित्ताश्मरीकृच्छ्रमूत्राघातज्वरार्त्तिनाशित्वञ्च । इति राजनिर्घण्टः ॥ अन्यच्च “अथ शिलारसः । सिह्लकस्तु तुरुष्कः स्याद्यतोऽपवनदेशजः । कपितैलञ्च स ख्यातस्तथा च कपिनामकः ॥ सिह्लकः कटुकः स्वादुः स्निग्धोष्णः शुक्रकान्ति- कृत् । वृष्यः कण्डूस्वेदकुष्ठज्वरदाहग्रहापहः ॥” इति भावप्रकाशः ॥ (अस्य शोधनविधिर्यथा, -- “तुरुष्को मधुना भाव्यः काश्मीरञ्चापि सर्पिषा ॥” इति वैद्यकचक्रपाणिसंग्रहे वातरोगाधिकारे ॥) म्लेच्छजातिविशेषः । इति मेदिनी । के, १०२ ॥ तुरुक् इति भाषा । देशविशेषः । तुरक्- स्तान् इति पारस्य भाषा । तत्पर्य्यायः । शाखिः २ । इति हेमचन्द्रः । ४ । २५ ॥ श्रीवासवृक्षः । इति विश्वः ॥ (घोटकविशेषः । यथा, अश्ववैद्यके । ६ । ११ । “तुरुष्कः कीर्त्तितो वाजी स्थूलवक्रमुखश्च यः ॥”)
📄 मूल मुद्रित पृष्ठ (2-635-a) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।