तूणी, स्त्री, (तूण्यते पूर्य्यते बाणैरिति । तूण + कर्म्मणि घञ् । गौरादित्वात् ङीष् ।) तूणः । इति शब्दरत्नावली ॥ (यथा, रघुः । ९ । ५६ । “तूणीमुखोद्धृतशरेण विशीर्णपङ्क्ति ॥” वेदनाविशेषः । यथा, सुश्रुते निदानस्थाने १ अध्याये । “अधो या वेदना याति वर्चोमूत्राशयोत्थिता । भिन्दन्तीव गुदोपस्थं सा तूणीत्युपदिश्यते ॥”)
तूणी, [न्] पुं, (तूणवदाकृतिरस्त्यस्येति । तूण + इनिः ।) नन्दीवृक्षः । इति राजनिर्घण्टः ॥ (अस्य पर्य्याया यथा, -- “तूणी तुन्नक आपीनस्तुणिकः कच्छकस्तथा । कुठेरकः कान्तलको नन्दिवृक्षश्च नन्दकः ॥” गुणाश्चास्य यथा, -- “तुणी रक्तः कटुः पाके कषायो मधुरो लघुः । तिक्तो ग्राही हिमो वृष्यो व्रणकुष्ठास्रपित्त- जित् ॥” इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे ॥) तूणयुक्ते, त्रि ॥ (यथा, हरिवंशे भविष्यपर्व्वणि । १८ । ३५ । “आरुह्य भगवान् विष्णुर्गरुडं पक्षिपुङ्गवम् । शङ्खी चक्री गदी खड्गी शार्ङ्गी तूणी तलत्र- वान् ॥”)
📄 मूल मुद्रित पृष्ठ (2-641-b) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।