तृतीयसवन न० सूयते सोमोऽस्मिन् कर्म्म० । कालत्रये सवन- त्रयोपेताग्निष्टोमादेः तृतीये सवने । तद्विधानादि ताण्ड्य० ब्रा० १ । ६ । १७ भाष्ये उक्तं यथा “तृतीयसवनारम्भमादित्यग्रहमाचरेत् । आर्भवेण स्तुवी- ताथ पश्वङ्गैः प्रचरत्यथ । सावित्रवैश्वदेवाख्यौ ग्रहौ सौम्यचरुस्तथा । पात्रीवतग्रहादूर्द्ध्वं यज्ञायज्ञायसं- स्तवः । अग्निमारुतशस्त्रं स्यात् गृह्णीयात् हारियो- जनम् । समाप्ते सवने पश्चात् कुर्य्यादवभृथं ततः । कुर्य्यादुदयनीयेष्टिमनूवन्ध्यां यजेत गाम् । देविकानिर्व- पेद्देवसुवासापि यजूँष्यथ । उपोष्य वेदिमाग्नेयमिष्टा- ग्निष्टोमसंस्थितिः” “प्रातः सवने नोच्चैः कर्माणि” कात्या० श्रौ० ९ । ६ । १८ “प्रातः सवने यान्युच्चैः कर्माणि प्रैषोच्चारणादीनि तान्यपि प्रथमस्वरेणैव कार्य्याणि “मन्द्रं प्रातः सवने चरन्तीति” शाखान्तरात् । अतश्चा- ग्नीदग्नीन्विहरेत्यादयः प्रैषा आश्रावणादयश्च प्रथमस्वरे- णैव प्रयोज्याः” कर्कः । “मध्यमेन माध्यन्दिने” १९ सू० “माध्यन्दिने सवने यानि कर्माणि नीचैर्यानि चोच्चैस्तान्यु- भयान्यपि मध्यगेन स्वरेण कार्य्याणि शाखान्तरे तथा श्रवणात्” कर्कः । “उत्तमेन तृतीयसवने” २० सू० “तृतीयसवने यानि नीचैर्य्यानि च मध्यमेन स्वरेण प्राप्नुवन्ति तानि सर्वाण्युत्तमेन तृतीयेनैव स्वरेण कार्य्याणि तथैव शाखा- न्तरे श्रुतत्वात्” कर्कः ।
📄 मूल मुद्रित पृष्ठ (3345,a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।