तोमरः, पुं क्ली, (तुम्पति हिनस्तीति । तुम्प + बाहुलकात् अरप्रत्ययेन साधुः । इत्युज्ज्वलदत्ते- नोक्तम् । ३ । १३१ ।) अस्त्रविशेषः । शावली इति भाषा । तत्पर्य्यायः । शर्व्वला २ । इत्य- मरः । २ । ८ । ९३ ॥ (यथा, देवीभागवते । ५ । ५ । २९ । “गदाभिः पट्टिशैः शूलैश्चक्रैश्च शक्तितोमरैः ॥”) हस्तक्षेप्यसशल्यदण्डः । इति महाभारतटीका ॥ रायवाँश इति भाषा ॥ (अस्य आकृत्यादिक- मुक्तं वैशम्पायनेन तद्यथा, -- “तोमरः काष्ठकायः स्यात् लौहशीर्षः सुपुच्छवान् । हस्तत्रयोन्नताङ्गश्च रक्तवर्णस्त्ववक्रगः ॥” शार्ङ्गधरेण तु, -- “फणवत् शीर्षदेशः स्यात्तोमरस्त्वायसस्तथा ॥” वैशम्पायनोक्तान्यस्य कार्य्याणि यथा, -- “उद्धानं विनियुक्तिश्च वेधनञ्चेति तत्त्रिकम् । वल्गितं शस्त्रतत्त्वज्ञाः कथयन्ति नराधिपाः ॥” अग्निपुराणोक्तधनुर्व्वेदमतेऽस्य कार्य्याणि यथा, “दृष्टिघातं भुजाघातं पार्श्वघातं द्विजोत्तम ! । ऋजुपक्षेषुणा पातं तोमरस्य प्रकीर्त्तितम् ॥” जनपदविशेषः । यथा, मात्स्ये । १२० । ५७ । “तोमरान् प्लावयन्ती च हंसमार्गान् समूहकान् ॥” नवाक्षरछन्दोविशेषे, क्ली । शब्दार्थचिन्ता- मणिधृतं तल्लक्षणादिकं यथा, -- “प्रथमं सकं विनिधाय जगणद्बयञ्च निधाय । कुरु तोमरं सुखकारि फणिराजवक्त्रविहारि ॥” [] उदाहरणम्, -- “सखि ! मादके मधुमासि व्रज सत्वरं किमिहासि । सहते न किं विहरामि किमु पावकं प्रविशामि ॥”)
📄 मूल मुद्रित पृष्ठ (2-650-c) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।