🕉️ 20 November 2026, Friday · 02:56:07 AM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

त्यद्
tyad
🔵 मोनियर-विलियम्स🟢 वाचस्पत्यम्
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
त्यद् mfn. nom. स्य (स्), स्या, त्यद्, (g. सर्वादि) that (often used like an article, e.g. त्यत् पणीनां वसु, ‘that i.e. the wealth of the Paṇis’, RV. ix, 111, 2; sometimes strengthened by चिद्; often put after उत, or after another demonstrative in the beginning of a sentence), RV.; AV. vii, 14, 1; ŚBr. xiv (त्यस्य = मम, 4, 1, 26; n. त्यम् for त्यद्, 5, 3, 1 and [in the etymology of सत्यम्] KauṣUp.), TUp. ii, 6
त्यद् ind. indeed, namely, as it is known (always preceded by ह), RV.
त्यद् [cf. Old Germ. der.]
📄 मूल मुद्रित पृष्ठ (457,1)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
त्यद् त्रि० त्यज--“त्यजितनियजिभ्यो डित्” उ० अदि डिच्च । १ प्रसिद्धे । अस्य सर्वनामतया त्यदादिकार्य्यम्, स्यः त्यौ त्ये त्यस्मै त्यस्मात् त्येषां त्यस्मिन् । स्त्रियां स्था त्ये त्याः । क्लीवे त्यद् त्यें त्यानीति भेदः । २ सर्वदा परो- क्षाभिधानार्हे वस्तुनि । “द्वे बाव ब्रह्मणो रूपे मूर्त्तञ्चैवामूर्त्तञ्च मर्त्यञ्चामृतञ्च स्थितञ्च यच्च सच्च त्यच्च । तदेतन्मूर्तं यदन्यद्वायीश्चा- न्तरीक्षाच्चैतन्मर्त्यमेतत् स्थितमेतत् तस्यैतस्य मूर्त्तस्यै- तस्य मर्त्यस्यैतस्य स्थितस्यैतस्य सत एष रसो य एष तपति सत्यो ह्येष रसः । अथामूर्तं वायुश्चान्तरिक्षं चैतदमृतमेतद्यदेतत्त्यत्तस्यैतस्यामूर्तस्यैतस्यामृतस्यैतस्य यत एतस्य त्यस्यैष रसो य एष एतस्मिन्मण्डले पुरुषस्तस्य ह्येष रस इत्यधिदैवतम्” वृ० उ० । “ते एते द्वे वाव वावशब्दोऽवधारणार्थः । द्वे एवेत्यर्थः । ब्रह्मणो पर- मात्मनो रूपे रूप्यते याभ्यामरूपं परमब्रह्माविद्याध्या- रोपणाभ्यां के ते द्वे । मूर्त्तञ्च एव मूर्तमेव च । तथा अमूर्त्तञ्च एवामूर्तमेव चेत्यर्थः । अन्तर्नीतस्वात्मविशेषणे मूर्त्तामूर्ते द्वे एवेत्यवधार्य्येते । कानि पुनस्तानि विशे- षणानि मूर्त्तामूर्तयोरित्युच्यन्ते । मर्त्यं मरण- धर्म्यमृतञ्च तद्विपरीतम् । स्थितं परिच्छिन्नं गतिपूर्वकं यत् स्थास्नु । यच्च यातीति यद्व्याप्यपरिच्छिन्नं स्थित- विपरीतम् । सच्च सदित्यन्येभ्यो विशेष्यमाणासाधारणध- र्मविशेषवत् । तच्च तद्विपरीतं त्यदित्येव सर्वदा परोक्षा- क्षाभिधानार्हम् । अथासूर्तमथाधुनाऽमूर्तमुच्यते । वायु- श्चान्तरिक्षञ्च यत्परिशेषितं भूतद्वयं एतदमृतममूर्तत्वा- दस्थितमतोऽविरुध्यमानं केनचिदमृतममरणधर्म तद्यत् स्थितविपरीतं व्याप्यपरिच्छिन्नं यस्माद्यदेतदन्येभ्योऽप्र- रित्यज्यमानविशेषमतस्त्यत्त्यदिति परोक्षाभिधानार्हमेव पूर्ववत् । तस्येतस्यामूर्तस्यैतस्यामृतस्यैतस्य यत एतस्य त्यस्य चतुष्टयविशेषणस्यामूर्तस्यैव रसः । कोऽसौ । य एष एतस्मिन्मण्डले पुरुषः करणात्मको हिरण्यगर्भः प्राण इत्यभिधीयते । यः स एषः अमूर्तस्य भूतद्वयस्य रसः पूर्ववत् सारिष्ठः, एतत्पुरुषसारञ्चामूर्तं भूतद्वयं हैरण्यगर्भलिङ्गारम्भाय हि भूतद्वयाभिव्यक्तिरव्याकृता- त्तस्मात्तादर्य्यात्तत् सारं भूतद्वयम् । त्यस्य ह्येष रसो [] यस्माद्यो मण्डलस्थः पुरुषो मण्डलवन्न गृह्यसारश्च भूतद्वयस्य च साधर्म्यम् । तस्माद्युक्तं प्रसिद्धवद्धेतूपा- दानं त्यस्य ह्येष रस इति” पा० भाष्यम् “सूतो वा सूतपुत्रो वा यो वा स्यो वा भवाम्यहम्” वेणी० । अव्ययीभावे शदरा० अच् समासान्तः । उपत्यदम् ।
📄 मूल मुद्रित पृष्ठ (3357-b)
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬 ज्योतिषीय प्रश्न पूछें