त्रिंशांश पु० त्रिंशस्त्रिंशत्पूरणोऽंशः । राशेस्त्रिंशत्पूरणे भागे षष्टिकलात्मके भागे षडवर्गान्तर्गतानां राशिभेदे तेषामंशविशेषाणामधिपतयः ज्यो० उक्ता यथा “पञ्च पञ्चाह्यद्रिवाणा विषमे त्रिंशदंशकाः । माहे- यशनिजीवज्ञशुक्राणां व्युत्क्रमात् समे” । विषमराशौ कुजशनिगुरुबुधशुक्राणां पञ्च पञ्चाष्टसप्तपञ्चमितास्त्रिंशां- शकाः क्रमात् ज्ञेयाः । समे राशौ व्युत्क्रमात् तेषां विपर्य्ययेण त्रिंशांशा ज्ञेयाः । यथा मेषो विषमराशिः तत्र प्रथमावधिपञ्चांशा भौमस्य । षष्ठांशमारभ्य दशमां- शपर्य्यन्तं पञ्चांशाः शनेः । एकादशांशमारभ्याष्टादशांश- पर्य्यन्तमष्टार्वशा गुरोः । ऊनविंशांशमारभ्य पञ्चविंशंश- पर्य्यन्तं सप्तांशा बुधस्य । ततः षड्विंशांशमारभ्य त्रिं- शांशपर्य्यन्तं पञ्चांशाः शुक्रस्य त्रिंशांशाः क्रमात् ज्ञेयाः । मिथुनसिंहतुलाधनुःकुम्भेष्वप्येवम् । समराशौ व्युत्- क्रमाद्यथा । वृषे प्रथमांशमारभ्य पञ्चांशा भृगोः । ततो द्वादशांशपर्य्यन्तं सप्तांशा बुधस्य, ततो विंशांश- पर्य्यन्तमष्टावंशा गुरोः । ततः पञ्चविंशांशपर्यन्तं पञ्चाशाः कुजस्य त्रिंशांशाः । एवं कर्ककन्यावृश्चिकमकरमीनेष्वपि वोध्र्याः । त्रिंशदंशका इत्यत्र वृत्तौ त्रिभागवत् पूरणार्थता
📄 मूल मुद्रित पृष्ठ (3361,a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।