त्रिकण्टं, क्ली, (त्रयाणां कण्टानां बृहत्यग्निदमनी- दुस्पर्शारूपाणां समाहारः ।) मिलितबृहत्यग्नि- दमनीदुस्पर्शात्रयरूपम् । तत्पर्य्यायः । कण्ट- कारीत्रयम् २ कण्टकत्रयम् ३ । इति राज- निर्घण्टः ॥
त्रिकण्टः, पुं, (त्रीणि कण्टानि कण्टकानि यस्य ।) गोक्षुरकः । इति शब्दरत्नावली ॥ पत्रगुप्तवृक्षः । इति शब्दचन्द्रिका ॥ तेकाँटासिज इति भाषा । मत्स्यभेदः । टेङ्गरा इति भाषा । अस्य गुणाः । पित्तकफनाशित्वम् । रूक्षत्वम् । अग्निदीपन- त्वम् । लघुत्वञ्च । इति राजवल्लभः ॥ (पर्य्यायोऽस्य यथा, वैद्यकरत्नमालायाम् ॥ “त्रिकण्टः स्थलशृङ्गाटो गोकण्टोऽथ त्रिकण्टकः । त्रिपुटः कण्टकफलः श्वदंष्ट्रा गोक्षुरः क्षुरः ॥”) कण्टकः, पुं, (त्रीणि कण्टकानि यस्य ।) लघु- गर्गमत्स्यः । इति त्रिकाण्डशेषः ॥ गोक्षुरक- वृक्षः । इति हेमचन्द्रः । ४ । २२२ ॥ (यथा, -- “त्रिकण्टः स्थलशृङ्गाटो गोकण्टोऽथ त्रिक- ण्टकः ॥” इति वैद्यकरत्नमालायाम् ॥)
📄 मूल मुद्रित पृष्ठ (2-655-a) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।