🕉️ 29 November 2026, Sunday · 12:35:55 PM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

त्रिकूट
trikūṭa
🟠 शब्दसागर🔵 मोनियर-विलियम्स🟢 वाचस्पत्यम्🟤 शब्दकल्पद्रुम
📗 अमरकोश — पर्याय
लंका का पर्वत (2.3.2) त्रिककुद्
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
त्रिकूट संज्ञा पुं॰ [सं॰]
१. तीन श्रृंगोंवाला पर्वत । वह पर्वत जिसकी तीन चोटियाँ हों ।
२. वह पर्वत जिसपर लंका बसी हुई मानी जाती है । देवी भागवत के अनुसार यह एक पीठस्थान है और यहाँ रूपसुंदरी के रूप में भगवती निवास करती हैं । उ॰—गिरि त्रिकूट एक सिंधु मँझारी । विधि निर्मित दुर्गम अति भारी ।—तुलसी (शब्द॰) ।
३. सेंधा नमक ।
४. एक कल्पित पर्वत जो सुमेरु पर्वत का पुत्र माना जाता है । विशेष—वामन पुराण के अनुसार यह क्षीरोद समुद्र में है । यहाँ देवर्षि रहते हैं और विद्याधर, किन्नर तथा गंधर्व आदि क्रीडा करने आते हैं । इसकी तीन चोटियाँ हैं । एक चोटी सोने की है जहाँ सूर्य आश्रय लेते हैं और दूसरी चोटी चाँदी की जिसपर चंद्रमा आश्रय लेते हैं । तीसरी चोटी बरफ से ढकी रहती है और वैदूर्य, इंद्रनील आदि मणियों की प्रभा से चमकती रहती है । यही उसकी सवसे ऊँची चोटी है । नास्तिकों और पापियों को यह नहीं दिखलाई देता ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
त्रि—कूट mfn. having 3 peaks or humps or elevations, MBh. xii
N. of a mountain (= -ककुद्), ii, 1484 (Hariv. 12782), BhP. v
of another mountain, viii, 2, 1
of a peak of mount Meru, VP. ii, 2, 26
of a mountain in Ceylon on the top of which Laṅkā was situated, MBh. iii; R.; Pañcat. v
त्रि—कूट n. sea-salt prepared by evaporation, L.
📄 मूल मुद्रित पृष्ठ (458,1)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
त्रिकूट पु० त्रीणि कूटानि शृङ्गाण्यस्य । लवणसमुद्रमध्यस्थे लङ्कापुराधारे पर्वतभेदे अमरः । “तैरूहे केशरिक्रान्त- त्रिकूटशिखरोपमा” माघः “स सागरमनाधृष्यमतिक्रम्य महाबलः । त्रिकूटस्य तटे लङ्कां स्थितः खस्थो ददर्श ह” रामा० सु० २ अ० । स आकरत्वेनास्त्यस्य अच् । २ तद्भवे सामुद्रलवणे न० । ३ सुमेण्सुते क्षीरोदसमुद्रतीरस्थे पर्वते च तत्कथा वामनपु० “सर्वरत्नमयः श्रीमान् त्रिकूटो नाम पर्वतः । सुतः पर्वतराजस्य सुमेरोर्भास्कर द्युतेः । क्षीरोदजलवीच्या यो धौतामलशिलातलः । उत्थितः सागरं भित्त्वा देवर्षिगणसेवितः” इत्युपक्रमे “तस्यैकं काञ्चनं शृङ्गं सेवते यद्दिवाकरः । नानापुष्प- समायुक्तं नानागन्धाधिबासितम् । द्वितीयं राजतं शृङ्गं सेवते यन्निशाकरः । पाण्डुराम्बुदसंकाशं तुषारचयसन्निभम् । वज्रेन्द्रनीलवैदूर्य्यतेजोभिर्भासयन् दिशः । तृतीयं ब्रह्मसदनं प्रकृष्टं शृङ्गमुत्तमम् । न तत् कृतघ्नाः पश्यन्ति न नृशंसा न नास्तिकाः । नातप्त- तपसो लोका ये च पापकृतो जनाः । तस्य सानुमतः पृष्ठे सरः काञ्चनपङ्कजम् । कारण्डवसमाकीर्णं राजहं- सोपशोभितम् । गजोह्यचलसंकाशो मदाच्चलितलो- चनः । तृषितः पातुकामोऽसायवतीर्णश्च तज्जलम् । संलीनः पङ्कजवने यूथमध्यगतश्चरन् । गृहीतस्तेन रौद्रेण ग्राहेणाव्यक्तमूर्त्तिना । गरुडस्थो जगन्नाथो लोका- धारस्तपोधन! । ग्राहग्रस्तं गजेन्द्रं तं तञ्च ग्राहं जलाशयात् । उज्जहाराप्रमेयात्मा तरसा मधुसूदनः । स्थलस्थं दारयामास ग्राहं चक्रेण माधवः । मोक्षया- मास नागेन्द्रं पापेभ्यः शरणागतम्” ।
📄 मूल मुद्रित पृष्ठ (3363,a)
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
त्रिकूटं, क्ली, (त्रिकूटः पर्व्वतः उत्पत्तिस्थानत्वे- नास्त्यस्येति अर्श आदित्वादच् ।) सिन्धुलवणम् । सामुद्रलवणम् । इति रत्नमाला ॥
त्रिकूटः, पुं, (त्रीणि कूटानि शृङ्गाणि यस्य ।) पर्व्वतविशेषः । यस्योपरि लङ्का । (यथा, रामा- यणे । ५ । २ । १ । “स सागरमनाधृष्यमतिक्रम्य महाबलः । त्रिकूटस्य तटे लङ्कां स्थितः स्वस्थो ददर्श ह ॥”) तत्पर्य्यायः । त्रिककुत् २ । इत्यमरः । २ । ३ । २ ॥ सुवेलः ३ त्रिमुकुटः ४ । इति हेमचन्द्रः ॥ त्रिशृङ्गः ५ । चित्रकूटकः ६ । इति शब्दरत्ना- वली ॥ (अयन्तु पीठस्थानानामन्यतमः । अत्र भगवती रुद्रसुन्दरीरूपेण विराजते । यथा, देवीभागवते । ७ । ३० । ६६ । “नारायणी सुपार्श्वे तु त्रिकूटे रुद्रसुन्दरी ॥”) क्षीरोदसमुद्रतीरस्थपर्व्वतः । यथा, -- “सर्व्वरत्नमयः श्रीमान् त्रिकूटो नामः पर्व्वतः । सुतः पर्व्वतराजस्य सुमेरोर्भास्करद्युतेः ॥ क्षीरोदजलवीच्या यो धौतामलशिलातलः । उत्थितः सागरं भित्त्वा देवर्षिगणसेवितः ॥ अप्सरोभिः परिवृतः श्रीमान् प्रस्रवणाकुलः । गन्धर्व्वैः किन्नरैर्यक्षैः सिद्धचारणपन्नगैः ॥ विद्याधरैः सपत्नीकैः संयुतैस्तु तपस्विभिः । मृगद्वीपिगजेन्द्रैश्च वृतगात्रो विराजते ॥ पुन्नागैः कर्णिकारैश्च विल्वामलकपाटलैः । चूतनिम्बकदम्बैश्च चन्दनागुरुचम्पकैः ॥ शालैस्तालैस्तमालैश्च शरलार्ज्जुनपिप्पलैः । तथान्यैर्व्विविधैर्वृक्षैः सर्व्वतः समलङ्कृतः ॥ नानाधात्वङ्कितैः शृङ्गैः प्रस्रवद्भिः समन्ततः । शोभितो रुचिरप्रख्यैस्त्रिभिर्व्वर्णैश्च सानुभिः ॥ मृगैः शाखामृगैः सिंहैर्म्मातङ्गैश्च सदामदैः । जीवञ्जीवकसंधुष्टैश्चकोरशिखिनादितैः ॥ तस्यैकं काञ्चनं शृङ्गं सेवते यद्दिवाकरः । [] नानापुष्पसमायुक्तं नानागन्धाधिवासितम् ॥ द्वितीयं राजतं शृङ्गं सेवते यन्निशाकरः । पाण्डराम्बुदसं काशं तुषारचयसन्निभम् ॥ वज्रेन्द्रनीलवैदूर्य्य्यतेजोभिर्भासयन् दिशः । तृतीयं ब्रह्मसदनं प्रकृष्टं शृङ्गमुत्तमम् ॥ न तत् कृतघ्नाः पश्यन्ति न नृशंसा न नास्तिकाः । नातप्ततपसो लोके ये च पापकृतो जनाः ॥ तस्य सानुमतः पृष्ठे सरः काञ्चनपङ्कजम् । कारण्डवसमाकीर्णं राजहंसोपशोभितम् ॥ गजो ह्यचलसंकाशो मदाच्चलितलोचनः । तृषितः पातुकामोऽसाववतीर्णश्च तज्जलम् ॥ स लीनः पङ्कजवने यूथमध्यगतश्चरन् । गृहीतस्तेन रौद्रेण ग्राहेणाव्यक्तमूर्त्तिना ॥ गरुडस्थो जगन्नाथो लोकाधारस्तपोधन ! । ग्राहग्रस्तं गजेन्द्रं तं तञ्च ग्राहं जलाशयात् ॥ उज्जहाराप्रमेयात्मा तरसा मधुसूदनः । स्थलस्थं दारयामास ग्राहं चक्रेण माधवः ॥ मोक्षयामास नागेन्द्रं पापेभ्यः शरणागतम् ॥” इति वामनपुराणम् ॥ (घोटकविशेषः । यथा, नकुलकृताश्वचिकित्- सिते । ४ । ९ । “त्रयो यस्य ललाटस्था आवर्त्ता अधरोत्तराः । त्रिकूटः स परिज्ञेयो वाजिवृद्धिकरः परः ॥”)
📄 मूल मुद्रित पृष्ठ (2-655-b)
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🔗 इससे बने/आरम्भ होने वाले शब्द (समास व व्युत्पन्न)
🔁 जिनके अर्थ में "त्रिकूट" आता है (2)
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬