त्रिपाद् पु० त्रयः पादा अस्य संख्यापूर्वत्वादन्त्यलोपः । १ त्रिवि- क्रमे २ विष्णौ तस्य तथात्वकथा यथा “भूयश्चैवाव्रवीदेनं वामनं वटुरूपिणम् । स्वल्पैः स्वल्पमते! किन्ते पादैस्त्रि- भिरनुत्तमम् । कृत्स्नां ददामि ते विप्र! पृथिवीं सागरै- र्वृताम्” वामन उवाच “न पृथ्वीं कामये कृत्स्नां सन्तुष्टोऽस्मि पदैस्त्रिभिः । एष एव रुचिष्यो मे वरो दानवसत्तम!” वैशम्पायन उवाच “तथाऽस्त्विति बलिः प्रोच्य स्पर्शयामास दानवः । पदानि त्रीणि देवाय विष्णवेऽमिततेजसे । तोये तु पतिते हस्ते [] वामनोऽभूदवामनः । सर्वदेवमयं रूपं दर्शयामास वै प्रभुः । भूः पादौ द्यौः शिरश्चास्य चन्द्रादित्यौ च चक्षुषी । पा- दाङ्गल्यः पिशांचाश्च हस्ताङ्गुल्यश्च गुह्यकाः” हरिवं० २६२ अ० “तस्य विक्रमतो भूमिं चन्द्रादित्यौ स्तना- न्तरे । नभः प्रक्रममाणस्य पादमूले व्यवस्थितौ । वि- ष्णोरमितवीर्य्यस्य वदन्त्येवं द्विजातयः” २६३ अ० “क्षितिं पदैकेन बलेर्विचक्रमे नभः शरीरेण दिशश्च बाहुभिः । पदं द्वितीयं क्रमतस्त्रिपिष्टपं न वै तृतीयाय तदीयमण्वपि । उरुक्रमस्याङ्घ्रिरुपर्य्युपर्य्यथो महर्ज- नाभ्यां तपसः परङ्गतः” भाग० ८ । २० । २६ “बलि- रुवच “यद्युत्तमश्लोक! भवन् ममेरितं वचो व्यलीकं सुरवर्य्य! मन्यते । करोम्यृतं तन्न भवेत् प्रलम्भनं पदं तृतीयं कुरु शीर्ष्णि मे निजम्” ८ । २२ । ३ । “इदं विष्णु- र्विचक्रमे त्रेधा निदधे पदम् । समूढमस्य पांसुरे” ऋ० १ । २२ । १७ । ३ परमेश्वरे च त्रिपादशब्दे छा० उ० वाक्यं दृश्यम् । ४ त्रेतायुगधर्मरूपे वृषे “राघवः शिथिलं तस्थौ भुवि धर्मस्त्रिपादिव” रघु० ।
📄 मूल मुद्रित पृष्ठ (3370-b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।