त्रिमधु, क्ली, (त्रयाणां मधूनां मधुराणां समा- हारः ।) मिलितसितामाक्षिकसर्पींषि । तत्- पर्य्यायः । मधुरत्रयम् २ मधुत्रयम् ३ । इति राजनिर्घण्टः ॥
त्रिमधुः, पुं, (मधुवाता इत्यादयस्त्रयो मधुशब्दा यत्र ।) ऋग्वेदैकदेशः । (यथा, ऋग्वेदे । १ । ९० । ६ -- ८ । “मघुवाता ऋतायते मधु क्षरन्ति सिन्धवः । माध्वीर्नः सन्तोषधीः ॥ मधुनक्तमुतोषसो मधुमत् पार्थिवं रजः । मधु द्यौरस्तुनः पिता ॥ मधुमान्नो वनस्पतिर्मधुमाँ अस्तु सूर्य्यः । माध्वीर्गावो भवन्तु नः ॥”) [] मधुवातादिऋक्त्रयवेत्ता । यथा, -- “त्रिनाचिकेतस्त्रिमधुस्त्रिसुवर्णः षडङ्गवित् ॥” इति पङ्क्तिपावनवर्णने मार्कण्डेयपुराणम् । ३१ । २३ ॥ तद्व्रतञ्च । तद्व्रताचरणेन यस्तद- ध्यायी सोऽपि । इति विज्ञानेश्वरः ॥ * ॥ श्राद्धे त्रिवारमधुशब्दोच्चारणविधिर्यथा, -- “गायत्त्रीं त्रिः सकृद्बापि जपेद्ब्याहृति- पूर्व्विकाम् । मधुवाता इति त्र्यृचं मध्वित्येतत् त्रिकं जपेत् ॥” इति श्राद्धतत्त्वे मिताक्षराधृतपारस्करवचनम् ॥)
📄 मूल मुद्रित पृष्ठ (2-660-c) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।