त्रिलौही, स्त्री, (त्रीणि लौहानि साधनत्वेना- स्त्यस्याः । अच् । गौरादित्वात् ङीष् ।) मुद्राविशेषः । यथा, अथ मन्त्रिणां हितर्थाय त्रिलौही मुद्रा निरूप्यते । “सोमसूर्य्याग्निरूपाः स्युवेर्णा लौहत्रयं तथा । रौप्यमिन्दूः स्मृतो हेम सूर्य्यस्ताम्रो हुताशनः ॥ लौहभागाः समुद्दिष्टाः स्वराद्यक्षरसंख्यया । [] तैर्लौहैः कारयेन्मुद्रामसङ्कलितसङ्गताम् ॥ एषु स्वराः स्मृताः सौम्याः स्पर्शाः सौराः शुभोदयाः । आग्नेया व्यापकाः सर्व्वे सोमसूर्य्याग्निदेवताः ॥ स्वराः षोडश विख्याताः स्पर्शास्ते पञ्चविंशतिः । व्यापका दश ते कामधनधर्म्मप्रदायिनः ॥ साष्टं सहस्रं संजप्य स्पृष्ट्वा तां जुहुयात्ततः । तस्यां सम्पातयेन्मन्त्री सर्पिषा पूर्व्वसंख्यया ॥ निःक्षिप्य कुम्भे तां मुद्रामभिषेकोक्तवर्त्मना । आवाह्य पूजयेद्देवीमुपचारैर्व्विधानतः ॥ अभिषिच्य विनीताय दद्यात्तां मुद्रिकां गुरुः । इयं मुद्रा क्षुद्ररोगविषज्वरविनाशिनी ॥ व्यालचौरमृगादिभ्यो रक्षां कुर्य्याद्बिशेषतः । युद्धे विजयमाप्नोति धारयन् मनुजेश्वरः ॥ मन्त्रसिद्धिकरी पुंसां चतुर्व्वर्गफलप्रदा । धारयन्मनुजो नित्यं देवतुल्यो भवेद्भुवि ॥” इति तन्त्रसारः ॥
📄 मूल मुद्रित पृष्ठ (2-662-a) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।