त्रैककुद न० त्रिककुद् नाम पर्वतः तत्र भवः अण् । सौरा- ञ्जने । “वृत्रस्येत्यक्ष्यावनक्तित्रैककुदाञ्जनेनाभावेऽन्यद्द्विर्द- क्षिणं त्रिरुत्तरं पराक्सकृत्सकृत्मन्त्रः शरेषीकया साग्रया” कात्या० श्रौ० ७ । २ । ३४ । “अध्वर्य्युः साग्रया शरेषीकया शरस्याग्रशलाकया त्रैककुदाञ्जनेन सौवीराञ्जनेन यज- मानस्य अक्ष्यौ चक्षुषी अक्षिणी पराक् अनावृत्तमनक्ति- नेतश्चामुतश्च तत्र दक्षिणं चक्षुर्द्विरनक्ति उत्तरं त्रिवा- रम् । तत्राञ्जनमन्त्रः सकृत् सकृत्पठनीयः । त्रिककुत् पर्वतस्तत्र भवमञ्जनं त्रैककुदं सौवीरमिति यत् प्रसि- द्धम् । त्रैककुदाभावेऽन्यत् लीकपसिद्धं यत् कज्जलादि । आपस्तम्बः “वृत्रस्य कनीनिकासीति त्रैककुदेनाञ्जनेनाङ्क्ते यटि त्रैककुदं नाधिगच्छेद्येनैव केनाञ्जनेनाञ्जीतेति” कर्कः । “त्रैककुटं भवति । यत्र वा इन्द्रो वृत्रमहंस्तस्य यदक्ष्यासीत्तं गिरिं त्रिककुदमकरोत्तद्यद्त्रैककुदं भवति चक्षुष्येवैतच्चक्षुर्दधाति तस्मात्त्रैककुदं भवति यदि त्रैक- कुदं न विन्देदप्यत्रैककुदमेव स्वात् समानी ह्येवाञ्जनस्य बन्धता” शत० ब्रा० ३ । १ । ३ । १२ ।
📄 मूल मुद्रित पृष्ठ (3392,a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।