त्रैमातुर पु० तिसृणां मातृणामपत्यम् अण् मातुरुत् । तिसृणां कौशल्यकेकयीसुमित्राणां स्नेहभाजनत्वेन तदीयांशपायसभोजनेन जनिते लक्ष्मणे “त्रैमातुरः कृत्सृजितास्त्रशसत्रः” भट्टिः । “सहि सुमित्रया, स्वांशपिण्डद्वयप्रदानात्ताभ्याञ्च जनितः” जयम० । तत्कथा रामायणे दर्शिता यथा “पायसं प्रति- गृह्णीथाः पुत्रीयं त्विदमात्मनः । कौशल्यायै नरपतिः पायसार्द्धं ददौ तदा । अर्द्धादर्द्धं ददौ चापि सुमि- त्रायै नराधिपः । कैकेत्य्यै चावशिष्टार्द्धन्ददौ पुत्रार्थ- कारणात् । प्रददौ चावशिष्टार्द्धं पायसस्यामृतोपमम् । अनुचिन्त्य सुमित्रायै पुनरेव महामतिः । एवन्तासां ददौ राजा भार्य्याणां पायसं पृथक् । ताश्चैव पायसं प्राप्य नरेन्द्रस्योत्तमाः स्त्रियः । सम्मानं मेनिरे सर्वाः प्रहर्षो दितचेतसः । ततस्तु ताः प्राश्य तमुत्तमस्त्रियो महीपतेरुत्तमपायसं पृथक् । हुताशनादित्यसमानतेज- सोऽचिरेण गर्भान् प्रतिपेदिरे तदा” आ० १६ स० ।
📄 मूल मुद्रित पृष्ठ (3393,b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।