त्र्यूषणं, क्ली, (त्रयाणां ऊषणानां पिप्पलीमरिच- शुण्ठीनां समाहारः ।) त्र्युषणम् । इत्यमर- टीकायां भरतः ॥ (“पिप्पलीमरिचं शुण्ठीत्रयमेतद्विमिश्रितम् । त्रिकटु त्र्यूषणं व्योषं कटुत्रयमथोच्यते ॥” इति वैद्यकपरिभाषायाम् ॥ अस्य गुणा यथा, -- “त्र्यूषणं दीपनं हन्ति श्वासकासत्वगामयान् । गुल्ममेहकफस्थौल्यमेदश्लीपदपीनसान् ॥” इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे ॥) (घृतविशेषः । यथा, चरके चिकित्सास्थाने २२ अध्याधे । “त्र्यूषणां त्रिफलां द्राक्षां काश्मर्य्याणि परूषकम् । द्वे पाठे सरलं व्याघ्रीं स्वगुप्तां चित्रकं शटीम् ॥ ब्राह्मीं तामलकीं मेदां काकनासां शतावरीम् । त्रिकण्टकां विदारीञ्च पिष्ट्वा कर्षसमं घृतात् ॥ प्रस्थं चतुर्गुणं क्षीरं सिद्धं कासहरं पिबेत् । ज्वरगुल्भारुचिप्लीहशिरोहृत्पार्श्वशूलनुत् ॥ कामलार्शोऽनिलाष्ठीलाक्षतशोषक्षयापहम् । त्र्यूषणं नाम विख्यातमेतद्घृतमनुत्तमम् ॥”)
📄 मूल मुद्रित पृष्ठ (2-666-b) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।