थ, थकारः । स व्यञ्जनसप्तदशवर्णः । तवर्ग- द्वितीयवर्णश्च । अस्योच्चारणस्थानं दन्तः । इति व्याकरणम् ॥ (यथा, शिक्षायाम् । १७ । “स्युर्मूर्द्धन्या ऋटुरसा दन्त्या ऌतुलसाः स्मृताः ॥”) अस्य स्वरूपं यथा, -- “थकारं चञ्चलापाङ्गि ! कुण्डली मोक्षरूपिणी । त्रिशक्तिसहितं वर्णं त्रिबिन्दुसहितं सदा ॥ पञ्चदेवमयं वर्णं पञ्चप्राणात्मकं सदा । अरुणादित्यसङ्काशं थकारं प्रणमाम्यहम् ॥” इति कामधेनुतन्त्रम् ॥ (वङ्गीयवर्णमालायाम्) अस्य लेखनप्रकारो यथा, -- “कुञ्चिता कुण्डली भूत्वा वामाद्दक्षिणतस्ततः । वामतः कुञ्चिता भूत्वा दक्षाधोदक्षतो गता ॥ ऊर्द्ध्व ऋज्वायता रेखा सुरा गङ्गादयः क्रमात् । वाणी भवानी लक्ष्मीश्च ध्यानमस्य प्रचक्षते ॥” [] अस्य ध्यानादि यथा, -- “नीलवर्णां त्रिनयनां षड्भुजां वरदां पराम् । पीतवस्त्रपरीधानां सदा सिद्धिप्रदायिनीम् ॥ एवं ध्यात्वा थकारन्तु तन्मन्त्रं दशधा जपेत् । पञ्चदेवमयं वर्णं पञ्चप्राणमयं सदा ॥ तरुणादित्यसङ्काशं थकारं प्रणमाम्यहम् ॥” इति वर्णोद्धारतन्त्रम् ॥ * ॥ अस्य नामानि यथा, -- “थः स्थिरामी महाग्रन्थिर्ग्रन्थिग्राहो भयानकः । शिली शिरसिजो दण्डी भद्रकाली शिलोच्चयः ॥ कृष्णो बुद्धिर्व्विकर्म्मा च दक्षनाशाधिपोऽमरः । वरदा भोगदा केशो वामजानुरसोऽनलः ॥ लोलौजज्जयिनी गुह्यः शरच्चन्द्रविदारकः ॥” इति नानातन्त्रशास्त्रम् ॥
थं, क्ली, रक्षणम् । मङ्गलम् । साध्वसम् । इति मेदिनी । थे, १ ॥
थः, पुं, (थुड संवृतौ + डः ।) पर्व्वतः । भय- रक्षकः । इति मेदिनी । थे, १ ॥ व्याधिभेदः । भयचिह्नम् । भक्षणम् । इति शब्दरत्नावली ॥
📄 मूल मुद्रित पृष्ठ (2-669-a) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।