🕉️ 22 November 2026, Sunday · 08:09:15 AM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

दंडनीति
daṃḍanīti
🟠 शब्दसागर🔵 मोनियर-विलियम्स🟢 वाचस्पत्यम्🟤 शब्दकल्पद्रुम
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
दंडनीति संज्ञा स्त्री॰ [सं॰ दण्डनीति]
१. दंड देकर अर्थात् पीड़ित करके शासन में रखने की राजाओं की नीति । सेना आदि के द्वारा बलप्रयोग करने की विधि ।
२. दुर्गा का एक रूप (को॰) ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
दण्ड—नीति f. application of the rod, administration of justice, judicature (as a science), Mn. vii, 43; Yājñ. i, 310; MBh. &c.
N. of wk. Ragh. i, 26, Sch.
Durgā, DevīP.
📄 मूल मुद्रित पृष्ठ (466,3)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
दण्डनीति स्त्री दण्डो नीयतेऽनया नी--करणे क्तिन् । वि- द्याभेदे । “एकैव दण्डनीतिस्तु विद्येत्यौशनसी स्थितिः । तस्यान्तु सर्वविद्यानामारम्भाः समुदाहृताः” । “दमो दण्ड इति ख्यातस्तात्स्थ्याद्दण्डो महीपतिः । तस्य नीति- र्दण्डनीतिर्नयनान्नीतिरुच्यते” काम० नीतिः । तच्छास्त्र- विषयविभागादि भा० शा० ५९ अ० उक्तं यथा “ततोऽध्यायसहस्राणां शतञ्चक्रे स्वबुद्धिजम् । यत्र धर्मस्तथैवार्थः कामश्चैवाभिवर्णितः । त्रिवर्ग इति विख्यातो गण एष स्वयम्भुवा । चतुर्थो मोक्ष इत्येव पृथगर्थः पृथग्गुणः । मोक्षस्यापि त्रिवर्गोऽन्यः प्रोक्तः सत्त्वं रजस्तमः । स्थानं वृद्धिः क्षयश्चैव त्रिवर्गश्चैव दण्डजः । आत्मा देशश्च कालश्चाप्युपायाः कृत्यमेव च । सहायाः कारणञ्चैव षड्वर्गो नीतिजः स्मृतः । त्रयी चान्वीक्षिकी चैव वार्त्ता च भरतर्षभ! । दण्डनीतिश्च विपुला विद्यास्तत्र निदर्शिताः । अमात्यरक्षा प्रणिधी राजपुत्त्रस्य लक्षणम् । चारश्च विविधोपायः प्रणिधेयः पृथग्विधः । साम भेदः प्रदानञ्च ततो दण्डश्च पार्थिव! । उपेक्षा पञ्चमी चात्र कार्त्स्न्येनैवमुदाहृता । मन्त्रश्च वर्णितः कृत्स्नस्तथा भेदार्थ एव च । विभ्रमश्चैव मन्त्रस्य सिद्ध्यसिद्ध्योश्च यत् फलम् । सन्धिश्च त्रिविधाभिख्यो हीनो मध्यस्तथोत्तमः । भयसत्कारवित्ताख्यं कार्त्स्न्येन परि- वर्णितम् । यात्राकालाश्च चत्वारस्त्रिवर्गस्य च विस्तरः । विजयो धर्मयुक्तश्च तथार्थविजयश्च ह । आसुरश्चैव विजयस्तथा कार्त्स्न्येन वर्णितः । लक्षणं पञ्चवर्गस्य त्रिविधञ्चात्र वर्णितम् । प्रकाशश्चाप्रकाशश्च दण्डोऽथ परि- शब्दितः । प्रकाशोऽष्टविधस्तत्र गुह्यस्य च सुविस्तरः । रथा नागा हयाश्चैव पादाताश्चैव पाण्डव! । विष्टिर्नावश्च- राश्चेह दैशिका इति चाष्टमम् । अङ्गान्येतानि कौरव्य! प्रकाशानि बलस्य तु । जङ्गमाजङ्गमाश्चोक्ताश्चूर्णयोगा विषादयः । स्पर्शे चाभ्यवहार्य्ये चाप्युपांशुस्त्रिविधः स्मृतः । अरिर्मित्रमुदासीन इत्येतेऽप्यनुवर्णिताः । [] कृत्स्ना मार्गगुणाश्चैव तथा भूमिगुणाश्च ह । आत्म- रक्षणमाश्वासः सर्गाणाञ्चान्ववेक्षणम् । कल्पना विविधा- श्चापि नृनागरथवाजिनाम् । व्यूहाश्च विविधाभिख्या विचित्रं युद्धकौशलम् । उत्पाताश्च निपाताश्च सुयुद्धं सुप- लायितम् । शस्त्राणां पालनं ज्ञानं तथैव भरर्तषभ! । बलव्यसनमुक्तञ्च तथैव बलहषर्णम् । पीडातापदकालश्च पत्तिज्ञानञ्च पाण्डव! । तथा खातविधानञ्च योगसञ्चार एव च । चौरैराटविकेश्चोग्रैः परराष्ट्रस्य पीडनम् । अग्निदैर्गरदैश्चैव प्रतिरूपककारकैः । श्रेणीमुख्योपजा- पेन वीरुधश्छेदनेन च । भूषणेन च नागानामातङ्का- जननेन च । आराधनेन भक्तस्य प्रत्ययोपार्ज्जनेन च । सप्ताङ्गस्य च राज्यस्य ह्रासवृद्धी समञ्जसम् । कृतसाम- र्थ्ययोगाच्च राष्ट्रस्य च विवर्द्धनम् । अरिमध्यस्थमित्राणां सम्यक् चोक्तं प्रपञ्चनम् । अवमर्द्दः प्रतीघातस्तथा चैव बलीयसाम् । व्यवहारः सुसूक्ष्मश्च तथा कण्टकशोधनम् । श्रमो व्यायामयोगश्च त्यागो द्रव्यस्य संग्रहः । अभृता- नाञ्च भरणं भृतानाञ्चान्ववेक्षणम् । अर्थस्य काले दानञ्च व्यसने चाप्रसङ्गिता । तथा राजगुणाश्चैव सेनापति- गुणाश्च ह । कारणञ्च त्रिवर्गस्य गुणा दोषास्तथैव च । दुष्टेप्सितञ्च विविधं वृत्तिश्चैवानुवर्त्तिनाम् । शङ्कित- त्वञ्च सर्वस्य प्रसादस्य च वर्जनम् । अलब्धलाभो, लब्धस्य तथैव च विवर्द्धनम् । प्रदानञ्च विवृद्धस्य पात्रेभ्यो विधि- वत्ततः । विसर्गोऽर्थस्य धर्म्मार्थं कामहेतुकमुच्यते । चतुर्थं व्यसनाघाते तथैवात्रानुवर्ण्णितम् । क्रोधजानि तथोग्राणि कामजानि तथैव च । दशोक्तानि कुरुश्रेष्ठ! व्यसनान्यत्र चैव
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🔗 इससे बने/आरम्भ होने वाले शब्द (समास व व्युत्पन्न)
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬 ज्योतिषीय प्रश्न पूछें