🕉️ 25 November 2026, Wednesday · 11:10:46 PM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

दंतकाष्ठ
daṃtakāṣṭha
🟠 शब्दसागर🔵 मोनियर-विलियम्स🟢 वाचस्पत्यम्🟤 शब्दकल्पद्रुम
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
दंतकाष्ठ संज्ञा पुं॰ [सं॰ दन्तकाष्ठ] दतुवन । दबून । मुखारी ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
दन्त—काष्ठ n. a small piece of the wood (of particular trees) used for cleaning the teeth, MBh. xiii &c.
cleaning the teeth with the दन्त-काष्ठ, 4996 VarP.
दन्त—काष्ठ m. N. of various trees the wood of which is used for cleaning the teeth (Flacourtia sapida, L.; Asclepias gigantea, Ficus indica, Acacia Catechu, Pongamia glabra, Terminalia alata), Npr.
📄 मूल मुद्रित पृष्ठ (468,3)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
दन्तकाष्ठ न० दन्तंधावनार्थं काष्ठम् । १ दन्तधावने काष्ठे । तत्काष्ठमस्त्यत्र साध्यतया अच् । २ विकङ्कतवृक्षे पु० राजनि० । सफलतत्काष्ठभेदाः वृ० स० ८५ अ० उक्ता यथा “वल्लीलतागुल्मतरुप्रभेदैः स्युर्दन्तकाष्ठानि सहस्रशो यैः । फलानि वाच्यान्यतितत्प्रसङ्गो मा भूदतो वच्म्यथ कामिकानि । अज्ञातपूर्वाणि न दन्तकाष्ठान्यद्यान्न पत्रैश्च समन्वितानि । न युग्मपर्वाणि न पाटितानि न चोर्ध्वशुष्काणि विना त्वचा वा । वैकङ्कतश्रीफल- काश्मरीषु ब्राह्मी द्युतिः क्षेमतरौ सुदाराः । वृद्धि- र्वटेऽर्के प्रचुरं च तेजः पुत्रा मधूके ककुभे प्रियत्वम् । लक्ष्मीः शिरोषे च तथा करञ्जे प्लक्षेऽर्थ- सिद्धिः समभीप्सिता स्यात् । मान्यत्वमायाति जनस्य जात्यां प्राधान्यमश्वत्थतरौ वदन्ति । आरो- ग्यमायुर्बदरीवृहत्योरैश्वर्यवृद्धिः खदिरे सविल्वे । द्रव्याणि चेष्टान्यतिमुक्तके स्युः प्राप्नोनि तान्येव पुनः कदम्बे । निम्बेऽर्थाप्तिः करवीरेऽन्नलब्धिर्भाण्डीरे म्यादिदमेव प्रभूतम् । शम्यां शत्रूनपहन्त्यर्जुने च श्यामायां च द्विषतामेव नाशः । सालेऽश्वकर्णे च वदन्ति गौरवं सभद्रदारावपि चाटरूषके । वाल्लभ्यमाथाति जनस्य सर्वतः प्रियङ्ग्वपामार्गसजम्वुदाडिमैः । उदङ्- मुखः प्राङ्मुख एव वाव्दं कामं यथेष्टं हृदये निवेश्य । अद्यादनिन्द्यं च सुखोपविष्टः प्रक्षाल्य जह्याच्च शुचिप्रदेशे । अभिमुखपतितं प्रशान्तदिक्स्थं शुभमतिशोभनमूर्ध्वसंस्थितं यत् । अशुभकरमतोऽ- न्यथा प्रदिष्टं स्थितपतितं च करोति मृष्टमन्नम्” । आ० त० नरसिंहपुराणे च “दन्तकाष्ठस्य वक्ष्यामि समासेन प्रशस्तताम् । सर्वे कण्टकिनः पुण्याः क्षीरिणश्च यशस्विनः” । महाभारते । “तिक्त कषायं कटुकं सुगन्धि कण्टकान्वितम् । क्षीरिणो वृक्ष- गुल्माद्यान् भक्षयेद्दन्तधावने” । निषिद्धकाष्ठानि यथा “गुवाकतालहिन्तालास्तथा ताडी च केतकी । खर्जूर- नारिकेलौ च सप्तैते तृणराजकाः । तृणराजसिरा पत्रैर्यः कुर्य्याद्दन्तधावनम् । तावद्भवति चाण्डालो याव- [] द्वङ्गां न पश्यति । तस्य स्थौल्यं परिमाणञ्चाह विष्णुः “कनिष्ठाग्रसमं स्थौल्यं सकूर्चं द्वादशाङ्गुलम् । प्रातर्भूत्वा च यतवाक् भक्षयेद्दन्तधावनम्” मरीचिः द्वादशाङ्गु- लञ्च वैश्यानां शूद्राणान्तु षडङ्गुलम् । चतुरङ्गुलमानेन नारीणां विधिरुच्यते । अन्तरप्रभवानाञ्च षडङ्गुलमुदा- हृतम्” । दन्तधावनदन्तपवनशब्देऽधिकं दृश्यम् ।
📄 मूल मुद्रित पृष्ठ (3464-a)
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
दन्तकाष्ठं, क्ली, (दन्तधावनार्थं यत् काष्ठम् ।) विकङ्कतवृक्षः । इति राजनिर्घण्टः ॥ दन्तधाव- नार्थकाष्ठम् । तद्यथा नरसिंहपुराणे । “दन्तकाष्ठस्य वक्ष्यामि समासेन प्रशस्तताम् । सर्व्वे कण्टकिनः पुण्याः क्षीरिणश्च यशस्विनः ॥” महाभारते । “तिक्तं कषायं कटुकं सुगन्धि कण्टकान्वितम् । क्षीरिणो वृक्षगुल्माद्या भक्षयेद्दन्तधावनम् ॥” [] निषिद्धकाष्ठानि यथा, -- “गुवाकतालहिन्तालास्तथा ताडी च केतकी । खर्ज्जूरनारिकेलौ च सप्तैते तृणराजकाः ॥ तृणराजशिरापत्रैर्यः कुर्य्याद्दन्तघावनम् । तावद्भवति चाण्डालो यावद्गङ्गां न पश्यति ॥” तस्य स्थौल्यं परिमाणञ्चाह विष्णुः । “कनिन्यग्रसमं स्थौल्यं सकूर्च्चं द्बादशाङ्गुलम् । प्रातर्भूत्वा च यतवाक् भक्षयेद्दन्तधावकम् ॥” मरीचिः । “द्वादशाङ्गुलन्तु विप्राणां क्षत्त्रियाणां नवाङ्गुलम् । अष्टाङ्गुलञ्च वैश्यानां शूद्राणान्तु षडङ्गुलम् ॥ चतुरङ्गुलमानेन नारीणां विधिरुच्यते । अन्तरप्रभवाणाञ्च षडङ्गुलमुदाहृतम् ॥” इत्याह्निकतत्त्वम् ॥
📄 मूल मुद्रित पृष्ठ (2-682-b)
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🔗 इससे बने/आरम्भ होने वाले शब्द (समास व व्युत्पन्न)
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬