दन्तपवन न० दन्तं पुनाति अनेन पू--करणे ल्युट् । १ दन्त- काष्ठे । भावे ल्युट् । २ दन्तधावने च । तत्प्रकारो भावप्र० उक्तो यथा “तत्रादौ दन्तपवनं द्वादशाङ्गुलमायतम् । कनिष्ठिका- परीणाहमृज्वग्रथितमव्रणम् । अयुग्मग्रन्थि यच्चापि प्रत्यग्रं शस्तभूमिजम् । अवेक्ष्यर्त्तुञ्च दोषञ्च रसं वीर्यञ्च योजयेत् । कषाय मधुरं तिक्त कटुकं प्रात- [] रुत्थितः । निम्बश्च तिक्तके श्रेष्ठः कषाये खदिर- स्तथा । मधूको मधुरे श्रेष्ठः करञ्ज कटुके तथा । क्षौद्रव्योषत्रिवर्गाक्तं सतैलं सैन्धवेन च । चूर्णेन तेजोवर्त्त्या च दन्तान्नित्यं विशोधयेत् । एकैकं घर्षयेद्दन्तं मृदुना कूर्चकेन च । दन्तशोधनचूर्णेन दन्तमांसान्य- बाधयन् । तद्दौर्गन्ध्योपदेहौ तु श्लेष्माणं चापकर्षति । वैशद्यमन्नाभिरुचिं सौमनस्यं करोति च । न खादेद्ग- लताल्वोष्ठजिह्वारोगसमुद्भवे । अथास्यपाके श्वासे च कासहिक्कावमीषु च । दुर्बलोऽजीर्णभक्तश्च मूर्च्छार्त्तो मदपीडितः । शिरोरुगार्त्तस्तृषितः श्रान्तःपानक्लमा- न्वितः । अर्दितः कर्णशूली च दन्तरोगी च वर्जयेत्”
📄 मूल मुद्रित पृष्ठ (3465-b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।