दद्रुः, पुं, कच्छपः । इति संक्षिप्तसारे उणादि- वृत्तिः ॥ (ददाति कण्डूमिति । दद + बाहुल- कात् रुः । यद्वा, दरिद्राति दुर्गच्छत्यनेनेति । दरिद्रा + मृगय्वादित्वात् कुप्रत्ययेन साधुः । इत्यु- ज्ज्वलदत्तः । १ । ९२ ।) रोगविशेषः । दाद [] इति भाषा । तस्य रूपान्तराणि । दर्द्रुः २ दद्रूः ३ दर्द्रूः ४ । इति भरतधृतशब्दभेदः ॥ तस्य लक्षणं यथा, -- “सकण्डुरागपिडकं दद्रुमव्रणमुन्नतम् ॥” इति माधवकरः ॥ तस्यौषधम् यथा, -- “विडङ्गैडगजाकुष्ठनिशासिन्धूत्थसर्षपैः । मूत्राम्बुपिष्टो लेपोऽयं दद्रकुष्ठविनाशनः ॥ प्रपुन्नाडस्य वीजानि धात्री सर्ज्जरसः स्नुही । सौवीरपिष्टं दद्रूणामेतदुद्बर्त्तनं परम् ॥ आरग्वधस्य पत्राणि आरनालेन पेषयेत् । दद्रुकिट्टिमकुष्ठानि हन्ति सिध्मानमेव च ॥” इति गारुडे १७५ अध्यायः ॥ * ॥ “एकश्च त्रिफलाभागस्तथा भागद्वयं शिव ! । सोमराजस्य वीजानां जग्धं पथ्या च दद्रुणुत् ॥ अम्बुतक्रं सगोमूत्रं क्वथितं लवणान्वितम् । कांस्यघृष्टं खरं लेपात कुष्ठदद्रुविनाशनम् ॥ हरिद्रा हरितालञ्च दूर्व्वा गोमूत्रसैन्धवम् । अयं लेपो हन्ति दद्रुं पामानं वै गरं तथा ॥” इति गारुडे १९४ अध्यायः ॥ * ॥ “मरीचं त्रिवृतं कुष्ठं हरितालं मनःशिला । देवदारु हरिद्रे द्वे कुष्ठं मांसी च चन्दनम् ॥ विशाला करवीरञ्च अर्कक्षीरं शकृत्पलम् । एषाञ्च कार्षिको भागो विषस्यार्द्धपलं भवेत् ॥ प्रस्थं कटुकतैलस्य गोमूत्रेऽष्टगुणे पचेत् । मृत्पात्रे लौहपात्रे वा शनैर्मृद्वग्निना पचेत् ॥ पामा विचर्च्चिका चैव दद्रुविस्फोटकानि च । अभ्यङ्गेन प्रणश्यन्ति कोमलत्वञ्च जायते ॥” इति च गारुडे १९८ अध्यायः ॥ * ॥ अथ दद्रुचिकित्सा । “कुष्ठकृमिघ्नो दद्रुघ्नो निशासैन्धवसर्षपाः । अम्लपिष्टः प्रलेपोऽयं दद्रुकुष्ठनिसूदनः ॥ दूर्व्वाभयासैन्धवचक्रमर्द्द- कुठेरकाः काञ्जिकतक्रपिष्टाः । त्रिभिः प्रलेपैरपि बद्धमूलां दद्रुञ्च कुष्ठञ्च विनाशयन्ति ॥” कुठेरकः ममरी इति लोके । लोके गण्डिलकाख्या सिद्धार्थकश्च स्नुहीक्षीरम् । त्रयमिति समभागं स्यादेषां द्बिगुणस्तु दद्रुघ्नः ॥ अष्टगुणे गोतक्रे तानि प्रकृतानि संदध्यात् । दिवसत्रितयादूर्द्ध्वं सम्यक् निष्पेषयेत्तानि ॥ वन्योपलेन घृष्ट्वा दद्रूमालेपयेत्तेन । सप्ताहाल्लेपोऽयं दद्रुकण्डूमवश्यं विनाशयति ॥” इति भावप्रकाशः ॥ (“लाक्षाकुष्ठं सर्षपाः श्रीनिकेतं रात्रिर्व्योषं चक्रमर्द्दस्य वीजम् कृत्वैकस्थं तक्रपिष्टः प्रलेपो दद्रूयुक्तो मूलकाद्बीजयुक्तः ॥ सिन्धूद्भूतं चक्रमर्द्दस्य वीज- मिक्षूद्भूतं केशरं तार्क्ष्यशैलम् । पिष्टो लेपोऽयङ्कपित्थाद्रसेन दद्रून्तूर्णं नाशयत्येष योगः ॥ [] हेमक्षीरी व्याधिघातः शिरीषो निम्बः सर्ज्जो वत्सकः साजकर्णः । शीघ्रं तीव्रा नाशयन्तीह दद्रूः स्नानालेपोद्घर्षणेषु प्रयुक्ताः ॥” इति च सुश्रुते चिकित्सितस्थाने नवमेऽध्याये ॥)
📄 मूल मुद्रित पृष्ठ (2-679-a) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।