दधिधेनुः, स्त्री, (दधिनिर्म्मिता धेनुः ।) दानार्थ- दध्यादिनिर्म्मिता धेनुः । यथा, वराहपुराणे । “दधिधेनोर्म्महाराज ! विधानं शृणु साम्प्रतम् । अनुलिप्ते महीभागे गोमयेन नराधिप ! ॥ गोचर्म्ममात्रे तु पुनः पुष्पप्रकरशोभिते । कुशैरास्तीर्य्य वसुधां कृष्णाजिनकुशोत्तराम् ॥ दधिकुम्भं सुसंस्थाप्य सदा धान्यचयोपरि । चतुर्थांशेन वत्सन्तु सौवर्णमुखमण्डितम् ॥ आच्छाद्य वस्त्रयुग्मेन पुष्पगन्धैस्तु पूजिताम् । ब्राह्मणाय कुलीनाय साधुवृत्ताय धीमते ॥ क्षमादिगुणयुक्ताय दद्यात्तां दधिधेनुकाम् । पुच्छदेशोपविष्टस्तु मुद्रिकाकर्णमात्रकैः ॥ पादुकोपानहौ छत्रं दत्त्वा मन्त्रमनुस्मरेत् । दधिक्राव्नेतिमन्त्रेण दधिधेनुं प्रदापयेत् ॥ एवं दधिमयां धेनुं दत्त्वा राजर्षिसत्तम ! । एकाहारो दिनं तिष्ठेद्दघ्ना च नृपनन्दन ! ॥ यजमानो वसेद्राजन् त्रिरात्रञ्च द्बिजोत्तम ! । दीयमानां प्रपश्यन्ति ते यान्ति परमां गतिम् ॥ यत्र क्षीरवहा नद्यो यत्र पायसकर्द्दमाः । मुनय ऋषयः सिद्धास्तत्र गच्छन्ति धेनुदाः ॥ य इदं श्रालयेद्भक्त्या शृणुयाद्वापि मानवः । सोऽश्वमेधफलं प्राप्य विष्णुलोकं स गच्छति ॥”
📄 मूल मुद्रित पृष्ठ (2-680-c) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।