दध्यन्च् पु० दधिं धारकमञ्चति अन्च--क्विप् । अथर्वर्षिपुत्रे दधीचौ मुनिभेदे “दध्यङ्ङाथर्वणस्त्वष्ट्रे” भाग० ६६ । ९ । ५१ “स वा अधिगतो दध्यङ्ङश्विभ्यां ब्रह्म निष्कलम्” भाग० ६ । ९ । ५५ । “यामथर्वा मनुष्पिता दध्यङ्धियमत्नत इत्यृचमधिकृत्य निरुक्ते तु १२ । ३३ अन्या निरुक्तिरुक्ता “दध्यङ्प्रत्यक्तो ध्यानमिति वा प्रत्यक्तमस्मिन् ध्यानमिति वा” । “दध्यङ् ह नन्मध्वाथर्वणो वामश्वस्य शीर्ष्णा प्र य- दीमुवाच” ऋ० १ । ११६ । १२ । आथर्वणः अथर्वणः पुत्रो दध्यङ् एतत्संज्ञ ऋषिरवस्य शीर्ष्णा युष्मत्नामर्थ्येन प्रतिहितेन शिरसा वाँ युवाभ्यामीमिमां मधुविद्यां यद् यदा खलु प्रोवाच प्रोक्तवान् । तदानीमश्वस्य शिरसः सन्धानलक्षणं पुनर्मानुषस्य शिरसः प्रतिसन्धानलक्षणं च यद्भवदीयं कर्म तदाविष्कृणोनीत्यर्द्धः । अत्रेयमा- ख्यायिका “इन्द्रो दधीचे प्रवर्ग्यविद्यां मधुविद्यां चोपदिश्यं यदीमामनस्मै वक्ष्यसि शिरस्ते छेत्स्यामी- [] त्युवाच । ततोऽश्विनावश्वस्य शिरश्छित्वा दधीचः शिरः- प्रच्छिद्यान्यत्र निधाय तत्राश्व्यं शिरः प्रत्यधत्तां तेन च दध्यङ् ऋचः सामानि यजूंषि च प्रवर्ग्यविषयाणि मधुविद्याप्रतिपादकं ब्राह्मणं चाश्विनावध्यापयामास । तदिन्द्रो ज्ञात्वा वज्रेण तच्छिरोऽच्छिनत् । अथाश्विनौ तस्य स्वकीयं मानुषं शिरः प्रत्यधत्तामिति । शाट्यायन- वाजसनेययोः प्रपञ्चेनोक्तम् । तस्य टादावजादौ दधीचः दधीचा इत्यादि । ततः स्वार्थे अण् इञ् वा पृषो० वृद्ध्यभावे । दधीच दधीचि इति रूपमित्यवधेयम् ।
📄 मूल मुद्रित पृष्ठ (3462-b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।