दशत् स्त्री दश परिमाणमस्य अति । दशानां वर्गे--दशके दश- सङ्ख्यायाम् । “स वै दक्षिणा नयन् । । अन्यूना दशतो नयेद्यस्मा एकां दास्यन्त स्याद्दशभ्यस्तेभ्यो दशत- मुपावर्त्तयेद्यस्मै द्वे दास्यन्त स्यात् पञ्चभ्यस्तेभ्यो दशतमु- पावर्त्तयेद्यस्मै तिस्रो दास्यन्त स्यात्त्रिभ्यस्तेभ्यो दशतमु- पावर्त्तयेद्यस्मै पञ्च दास्यन्त स्याद्द्वाभ्यो तभ्यां दशतमुपार्त्तये देवमा शतात्तथो हास्यैषान्यूना विराडमुष्मिं लोके काम- दुघा भवति” शतब्रा० ४ । ५ । ८ । १६ । “या प्रथमा दशदयं स लोको या द्वितीयान्तरिक्षं तद्या तृतीया द्यौः सेममेव लोकं प्रथमया दशतारोहन्नन्तरिक्षं द्वितीयया दिवं तृतीयया तथैवैतद्यजमान इममेव लोक प्रथमया दशता रोहत्यन्तरिक्षं द्वितीयया दिवं तृतीयया” ८ । ५ । २ । १५ । “एकादश दशत आलभते । एकादशाक्षरा वै वीर्य्यं त्रिष्टुबिन्द्रियस्यैव वीर्य्यस्यावरुद्ध्या एकादश दशत आल- भते दश वै पशोः प्राणा आत्मैकादशः प्राणैरेव पशून्त्समर्द्धयति” शत० ब्रा० १३ । २ । ५ । ४ ।
📄 मूल मुद्रित पृष्ठ (3478,b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।