दशहरा स्त्री दश पापानि हरति हृ--ट । गङ्गाजन्मदिने ज्यैष्ठशुक्लदशम्याम् । “ज्यैष्ठे मासि क्षितिसुतदिने शुक्लपक्षे दशम्यां हस्ते शैलान्निरगमदियं जाह्नवी मर्त्यलोकम् । पापान्यस्यां हरति च तिथौ सा दशेत्याहुरार्य्याः पुण्यं दद्यादपि शतगुणं वाजिमेधायुतस्येति” शङ्खः । अपि च “अदत्ता- नामुपादानं हिंसा चैव विधानतः । परदारोपसेवा च कायिकं त्रिविधं स्मृतम् । पारुष्यमनृतं चैव पैशुन्य- ञ्चापि सर्वशः । असम्बद्धप्रलापश्च वाङ्मयं स्यात् चतु- र्विधम् । परद्रव्येष्वभिध्यानं मनसानिष्टचिन्तनम् । वित- थाभिनिवेशश्च मानसं त्रिविधं स्मृतम् । एतानि दश- पापानि हर त्वं मम जाह्नवि! । दशपापहरा यस्मात् तस्माद्दशहरा स्मृता । “ज्येष्ठे मासि सिते पक्षे दशम्यां बुधहस्तयोः । गरानन्दे व्यतीपाते कन्याचन्द्रे वृषे रवौ । दशयोगे नरः स्नात्वा सर्वपापैः प्रमुच्यते” इति स्कन्दपुराणे काशीखण्डे । अत्र कुजबुधयोः कल्पभेदेन व्यवस्था ज्ञेया । ३ सेतुबन्धरामेश्वरयोः प्रतिष्ठादिने यथोक्तं स्कान्दे सेतुमाहात्म्ये “ज्यैष्ठे मासि सिते पक्षे दशम्यां बुधहस्तयोः । गरानन्दे व्यतीपाते कन्या- चन्द्रे वृषे रवौ । दशयोगे सेतुमध्ये लिङ्गरूपधरं हरम् । रामो वै स्थापयामास शिवलिङ्गमनुत्तमम् । अता- [] ऽस्यां तु विशेषेण पूजा कार्य्या हितार्थिभिः” । अत्र स्नानाङ्कसङ्कल्प उक्तः गारुडे २१५ अ० यथा । “अद्य हस्ते तु नक्षत्रे दशम्यां ज्यैष्ठके सिते । दशपापहरा- याञ्च अदत्तादानकल्मषम् । विरुद्धाचरणं हिंसा पर- दारोपसेवनम् । पारुष्याहृतपैशुन्यमसम्बद्धं प्रभाषणम् । परद्रव्याभिध्यानञ्च मनसानिष्टचिन्तनम् । एतद्दशाघघा- ताय गङ्गास्नानंनं करोम्यहमिति” ।
📄 मूल मुद्रित पृष्ठ (3484-a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।