दानधर्म्म पु० दानरूपो धर्मः । दानात्मके धर्मे स च भारते आनुशासनपर्वणि ५७ अध्यायावधिषु ६९ अध्यायान्तेषु विस्तरेणोक्तः । अन्यश्च “अथातः संप्रवक्ष्यामि दानधर्म- मनुत्तमम् । अर्थानामुचिते पात्रे श्रद्धया प्रति- पादनम् । दानन्तु कथितं तज्ज्ञैर्भुक्तिमुक्तिफलप्रदम् । न्यायेनोपार्जयेद्वित्तं दानभोगफलञ्च तत् । अध्यापनं याज- नञ्च वृत्तिर्विप्रे प्रतिग्रहः । रक्षणं विजयश्चैव क्षत्रवृत्ति- रुदाहृता । कुसीदं कृषिबाणिज्यं वैश्यवृत्तिः स्वभावजा । यद्दीयते च पात्रेभ्यस्तद्दानं परिकीर्त्तितम् । नित्यं १ नैमित्तिकं२ काम्यं ३ विमलं ४ दानमीरितम् । अहन्यहनि यत् किञ्चिद्दीयतेऽनुपकारिणे । अनुद्दिश्य फलं तत् स्यात् ब्राह्मणाय तु नित्यकम्१ । यत्तु पापोपशान्त्यै च दीयते विदुषां करे । नैमित्तिकं२ तदुद्दिष्टं दानं सद्भिरनुष्ठि- तम् । अषत्यविजयैश्चर्य्यस्वर्गार्थं यत् प्रदीयते । दानं तत् काम्य (३) माख्यातमृषिभिर्धर्मचिन्तकैः । ईश्वरप्रीण- नार्थाय ब्रह्मवित्सु प्रदीयते । चेतसा सत्वयुक्तेन दानं तत् विमलं ४ स्मृतम् “इत्युपक्रम्य गारुडे ५१ अ० उक्तः । “दानधर्मात् परोधर्मो भूतानां नेह विद्यते” तत्रैवाध्याये
📄 मूल मुद्रित पृष्ठ (3541,b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।