🕉️ 23 November 2026, Monday · 04:59:39 AM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

दानविधि
dānavidhi
🔵 मोनियर-विलियम्स🟤 शब्दकल्पद्रुम
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
दानविधिः, पुं, (दानस्य विधिः ।) दानस्य विधा- नम् । यथा, -- “अथ दानविधिं वक्ष्ये तं मे शृणुत सुव्रताः । अन्येभ्यो ब्राह्मणाः श्रेष्ठास्तेभ्यश्चैव क्रियापराः ॥ ब्रह्मवेत्ता च तेभ्योऽपि पात्रं विद्यातपोऽन्वितः । गोभूघान्यहिरण्यादि पात्रे दातव्यमर्च्चितम् ॥ विद्यातपोभ्यां हीनेन न तु ग्राह्यः प्रतिग्रहः । गृह्णन् प्रदातारमधो नयत्यात्मानमेव च ॥ दातव्यं प्रत्यहं पात्रे निमित्तेषु विशेषतः । याचितेनापि दातव्यं श्रद्धापूतन्तु शक्तितः ॥ हेमशृङ्गी शफै रौप्यैः सुशीला वस्त्रसंयुता । सकांस्यपात्रा दातव्या क्षीरिणी गौः सदक्षिणा ॥ दशसौवर्णिकं शृङ्गं शफं सप्तपलैः कृतम् । पञ्चाशत्पलिकं पात्रं कांस्यं वत्सश्च कीर्त्त्यते ॥ स्वर्णपिप्पलपात्रेण वत्सो वा वत्सिकापि वा । तस्यामपि च दातव्यं अपत्यं रोगवर्ज्जितम् ॥ दाता स्वर्गमवाप्नोति वत्सरान् रोमसम्मितान् । कपिला चेत्तारयते भूयश्चासप्तमं कुलम् ॥ यावद्वत्सस्य द्बौ पादौ मुखं योन्यां प्रदृश्यते । तावद्गौः पृथिवी ज्ञेया यावद्गर्भं न मुञ्चति ॥ यथाकथञ्चिद्दत्त्वा गां धेनुं वाधेनुमेव वा । अरोगामपरिक्लिष्टां दाता स्वर्गे महीयते ॥ श्रान्तसंवाहनं रोगिपरिचर्य्या सुरार्च्चनम् । पादशौचं द्विजोच्छिष्टमार्ज्जनं गोप्रदानवत् ॥ द्बिजाय यदभीष्टन्तु दत्त्वा स्वर्गमवाप्नुयात् । भूदीपाश्वान्नवस्त्राम्भस्तिलसर्पिःप्रतिश्रयान् ॥ गृहधान्यच्छत्रमालायानवृक्षघृतं जलम् । शय्यानुलेपनं दत्त्वा स्वर्गलोके महीयते ॥ ब्रह्मदाता ब्रह्मलोकं प्राप्नोति सुरदुर्ल्लभम् ॥ वेदार्थयज्ञशास्त्राणि धर्म्मशास्त्राणि चैव हि । मूल्येनापि लिखित्वापि ब्रह्मलोकमवाप्नुयात् ॥ एतन्मूलं जगत् यस्मादसृजत् पूर्व्वमीश्वरः । [] तस्मात् सर्व्वप्रयत्नेन कार्य्यो वेदार्थसंग्रहः ॥ इतिहासं पुराणं वा लिखित्वा यः प्रयच्छति ब्रह्मदानसमं पुण्यं प्राप्नोति द्बिगुणोन्नतिम् । लोकायतं कुतर्कश्च प्राकृतं म्लेच्छभाषितम् । न श्रोतव्यं द्विजेनैव तदधो नयति द्बिजम् ॥ समर्थो यो न गृह्णीयात् दातृलोकमवाप्नुयात् ॥ कुशाः शाकं पयो गन्धाः प्रत्याख्येयं न वारि च । अयाचिताहृतं ग्राह्यमपि दुष्कृतकर्म्मणः ॥ अन्यत्र कुलटाषण्ढपतितेभ्यो द्विषस्तथा । देवातिथ्यर्च्चनकृते पितृभृत्यर्थमेव च । सर्व्वतः प्रतिगृह्णीयादात्मतृप्त्यर्थमेव च ॥” इति गारुडे ९८ अध्यायः ॥
📄 मूल मुद्रित पृष्ठ (2-701-c)
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬