🕉️ 27 November 2026, Friday · 01:02:36 AM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

दारिद्र्य
dāridrya
🔵 मोनियर-विलियम्स🟣 आप्टे🟢 वाचस्पत्यम्🟤 शब्दकल्पद्रुम
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
दारि˚द्र्य n. poverty, Mṛcch.; VarBṛ.; Pañc.; Hit.
📄 मूल मुद्रित पृष्ठ (476,1)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟣 आप्टे संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
दारिद्र्यं, दारिद्रं [दरिद्रस्य भावः ष्यञ्] Poverty, indigence; दारिद्र्यदोषो गुणराशिनाशी Subhāṣ.
📄 मूल मुद्रित पृष्ठ (0563-c)
स्रोत: V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
दारिद्र्य न० दरिद्रस्य भावः ष्यञ् । दरिद्रतायां दुर्गती धनादिराहित्ये “प्रणीय दारिद्र्यदरिद्रतां नृपः” नैष० दारिद्र्यवर्णनं मृच्छकटिकायां यथा “सुखं हि दुःखान्यनुभूय शोभते घनान्धकारेष्विव दीप- [] दर्शनम् । सुखात्तु यो याति नरो दरिद्रतां धृतः शरी- रेण मृतः स जीवति । दारिद्र्यमनन्तकं दुःखम् । षयस्य! न ममार्थान् प्रति दैन्यम् । पश्य “एतत्तु मां दहति यद्गृहमस्मदीयं क्षीणार्थमित्यतिथयः परिवर्ज- यन्ति । संशुष्कसान्द्रमदलेखसिव भ्रमन्तः कालात्यये मधुकराः करिणः कपोलम्” । सत्यं न मे विभवनाश- कृतास्ति चिन्ता, भाग्यक्रमेण हि धनानि भवन्ति यान्ति । एतत्तु मां दहति नष्टधनाश्रयस्य यत् सौहृ- दादपि जनाः शिथिलोभवन्ति । दारिद्र्याद्ध्रियमेति ह्रीपरिगतः प्रभ्रश्यते तेजसो, निस्तेजाः परिभू- यते, परिभवार्न्निर्चेदमापद्यते । निर्विण्णः शुचमेति, शोकपिहितो बुद्ध्या परित्यज्यते, निर्वुद्धिः क्षयमेत्यहो निधनता सर्वापदामास्पदम् । दारिद्र्यं हि पुरुषस्य । निवासश्चिन्तायाः परपरिभवो वैरमपरं, जुगुप्सा मित्राणां स्वजनजनविद्वेषकरणम् । वनं गन्तुं बुद्धि- र्भवति च कलत्रात् परिभवो, हृदिस्थः शोकाग्निर्न च दहति सन्तापयति च” । तत्रैव अन्यत्र स्थाने “दारि- द्र्यात् पुरुषस्य बान्धवजनो वाक्ये न सन्तिष्ठते, सुस्निग्धा विमुखीभवन्ति सुहृदः स्फारीभवन्त्यापदः । सत्वं ह्रासमुपैति शीलशशिनः कान्तिः परिम्लायते, पापं कर्म च यत्परैरपि कृतं तत्तस्य सम्भाव्यते । सङ्गं नैव हि कश्चिदस्य कुरुते सम्भाष्यते नादरात् सम्प्राप्तो गृह- मुत्सवेषु धनिनां सावज्ञमालोक्यते । दूरादेव महाज- नस्य विहरत्यल्पच्छदो लज्जया मन्ये निर्धनता प्रकाम- मपरं षष्ठं महापातकम् । दारिद्र्य! शोचामि भव- न्तमेवमस्मच्छरीरे सुहृदित्युशित्वा । विपन्नदेहे मयि श्रन्दभाग्ये, ममेति चिन्ता क्व गमिष्यसि त्वम्” । तत्सूचकयोगभेदा जातकपद्धतावुक्ता यथा “समस्तपाप- खेचरैर्युतेक्षितं धनाभिधम् दरिद्रताविधायकं वि- शेषतः कुशानुना” । “बुधगुरुकवयश्चेद्वित्तगा वित्तनाशं विदधति यदि दृष्टाः सोमसौम्येन्दुपुत्रैः” “क्षोणः शशी ज्ञेन विलोकितोऽर्थे पूर्वाजितार्थस्य विनाशदः स्यात्” । “नवीनवित्तागमरोधकोभवेत् रविर्धनेऽत्यष्टिमिते कुजोऽङ्के षङ्गिंशके ज्ञेधननाशदः स्यात्” । नाभनयोगशब्दे वक्तव्य- लक्षणशूलयुगगोलकयोगैर्दरिद्रताप्तिः वृहज्जा० उक्ता यथा “विघनश्च शुले” “धनविरहितः पाषण्डी वा युगे त्वथ गो- लके विधनमलिन” इत्यादि “पुष्पवन्तार्कियोगे स्यान्मूर्खो धूर्त्तो धनोज्झितः” । “तपनारार्कपुत्राणां योगे निःस्योऽति [] दुःखितः” । “नृपतेर्वंशजातीऽपि केमद्रुमभवो नरः । मलिनो दुःखितो नीचो निःस्वोदासः खलो भवेत्” । अस्य अपवादः “लग्नाद्विधोर्वा वृद्धिस्थैः शुभैः सर्वैः शुभं फलम् । द्वाभ्यां मध्यं तथैकेनाल्पं चेन्नास्ति दरिद्रता” । जातकपद्धतिः ।
📄 मूल मुद्रित पृष्ठ (3557-a)
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
दारिद्र्यं, क्ली, (दरिद्रस्य भावः । दरिद्र + ष्यञ् ।) दरिद्रता । यथा, -- “प्रणीय दारिद्र्यदरिद्रतां नृपः ।” इति नैषधे । १ । १५ ॥ (यथा, मृच्छकटिके १ अङ्के । “दारिद्र्यान्मरणाद्वा मरणं मम रोचते न दारि- द्र्यम् । अल्पक्लेशं मरणं दारिद्र्यमनन्तकं दुःखम् ॥”) निर्यकारान्तोऽप्ययम् ॥
📄 मूल मुद्रित पृष्ठ (2-705-a)
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬