🕉️ 27 November 2026, Friday · 06:05:00 AM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

दिक्साधन
diksādhana
🟠 शब्दसागर🟢 वाचस्पत्यम्
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
दिक्साधन संज्ञा पुं॰ [सं॰] वह उपाय जिससे दिशाओं का ज्ञान हो । जैसे, जिस ओर सूर्य उदय होता हो उस ओर मुँह करके खडे़ होना और तब यह समझना कि सामने पूरब, पीछे पश्चिम, दाहिनी ओर दक्षिण और बाई और उत्तर है; अथवा कुछ विशेष नियमों के अनुसार धूप में समवृत्त बनाकर और उसमें लकड़ी आदि गाड़कर उस की छाया से दिशा का पता लगाना । सूर्यसिद्धांत आदि प्राचीन ग्रंथों में इस प्रकार दिक्साधन की कई विधियाँ लिखी हैं ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
दिक्साधन न० दिशः साध्यन्ते ज्ञानार्थम् अनेन । दिग्ज्ञान साधने उपायभेदे तच्च कुण्डार्के दर्शितं यथा “नृपाङ्गुलैः संमितकर्कटेन सूत्रेण वा वृत्तवरं वि- लिख्य । रव्यङ्गुलं शङ्कुममुष्य मध्ये निवेशयेत् खाक्षि मिताङ्गुलीभिः । चतुर्मिताभिश्च ऋजूत्तमाभिः संस्पृष्ट- शीर्षं तु शलाकिकाभिः । तच्छङ्कुभा यत्र विशेदपेयाद्- वृत्ते क्रमात् स्तो वरुणेन्द्रकाष्ठे” नृपाङ्गलैः परिमितेन कर्कटेन सूत्रेण वा वृत्तं विलिख्य तन्मध्ये द्वादशाङ्गुलं दृडसूच्यग्रं स्थापयेत् कीदृशं विंशत्यङ्गुलमिताभिश्चतसृभिः ऋजुभिः समानाभिः शलाकामिः कल्पितचतुर्दिग्गत- वृत्तस्थाभिः संस्पृष्टमस्तकम् एवं शङ्कुसमत्वं साधयित्वा तादृशस्य शङ्कोश्छाया पूर्वाह्णे यत्र यस्मिन् प्रदेशे वृत्ते प्रविशति यत्र वापराह्णे वृत्ताद्बहिरपैति तत्र चिह्नयोः क्रमात् प्रतीची प्राची च भवत इति अत्र दिगज्ञानशब्दे वक्ष्यमाणम् “वृत्तेऽम्भः सुसमी- [] कृतक्षितिगते इत्यादि सि० शि० वाक्यं प्रमाणम् । तत्र असार्द्धश्लोकस्योपपत्तिः ग्रमि० उक्ता यथा “दोःकोट्योर्नाम भेदो न स्वरूपभेद इति दोःकोटिवर्गयोगपद कर्णः १० वृत्तपरिधिस्पृष्टदिगन्ताच्छङ्क्वग्रं यावन्नीयमानाश्चतस्रः शलाकाः कर्णा भवन्ति समे देशे शङ्कुं निखाय शङ्कु समितया रज्ज्वा मण्डलं परिलिख्य यत्र शङ्क्वग्रछाया पतति सा प्राचीति” अत्र शङ्कुसंमितयेत्युपल- क्षणं तेनाधिकयापि रज्ज्वा वृत्तं कार्य्यम् । अ- न्यथा यत्राक्षभा षडङ्गुला तत्र धनुःसंक्रान्तौ द्वादशा- ङ्गुलशङ्कोश्छायाप्रवेशस्तादृशे वृत्ते न स्यादेव तस्माद- स्माभिः षोडशाङ्गुलसूत्रेण वृत्तं कारितं तथा वृत्ते कृते लाघवं चैकेनैव वृत्तेन शङ्कुसमत्वमाधनं दिक्साधनं च सिध्यति । अतएव रामवाजपेयी “शङ्कुमानाधिके व्यासदले वृत्ते विशेद्यदि” इत्याह एवं स्थूलप्राचीसाघनं कृत्वा सूक्ष्ममपि शालिन्याह । “कर्के कीटे गोमृगे यूकया सा द्वाभ्यां चाल्पा सिंहकुम्भात्त्रिकेऽपि । यां वै काष्ठां भानुमान् याति तस्यां चाल्पा द्वन्द्वे कार्मुके चालनं न ।” सा प्राची कर्के कर्कसंक्रान्तौ कीटे वृश्चिकसंक्रान्तौ वृषभ- मकरसंक्रान्तौ एकया यूकया चाल्पा सूर्यस्यायनवशात् उत्तरायणे उत्तरतः दक्षिणायने दक्षिणतः एवं सिंह- कुम्भात्त्रिके सिंहकन्यातुलासंक्रान्तौ कुम्भमीनमेषसंक्रान्तौ च द्वाभ्यां यूकाभ्यां चालनीया अयनवशात् मिथुनधनुः- संक्रान्तौ चालनं नास्तीति एवं प्राचीसाधनं कृत्वाथो- त्तरदक्षिणयोः साधनं शालिन्याह “रज्ज्वुं द्विघ्नां मध्यचिह्नां सपाशां प्राचीं शङ्कौ पश्चिमे चापि दत्त्वा । कर्षेद्धीमान् दक्षिणे चोत्तरे च तच्चिह्ने स्याद्दक्षिणा- चोत्तरा दिक्” । कुण्डमण्डपयोर्यावान् विस्तारस्तद्द्वि- गुणकृतमध्याङ्कादुभयतः पाशवती रज्ज्वुर्न्यस्या तां प्राची प्रचीच्योर्दत्तशङ्क्वोर्विन्यसेत् ततो मध्याङ्के धृत्या रज्ज्वुंदक्षिणे उत्तरे चाकर्षेत् विद्वान्, कर्षाङ्के दक्षिणा उत्तरा च स्यादिति अत्र स्पष्टैव युक्तिरिति । अथ रात्रौ दिक्साधनीपायं वसन्तमांलिकयाह “निशि वा श्रवणोदये दिगैन्द्री गुरुभस्योदयनेऽथ वह्निभस्य । शरवर्द्धकिवायुभान्तरालेऽप्यमुतः साधय पूर्ववच्च याम्याम्” अथवा रात्रौ श्रवणस्योदये प्राची अथ वा पुष्पस्योदये प्राची अथवा कृत्तिकोदये प्राची अथ शरवर्द्धकिस्त्वष्टा वायुस्तयोर्भे चित्रास्वात्यौ तयोरन्तराले प्राची । अमुतः प्राचीतः पूर्बवत् पूर्वोक्तेन तथा याम्यां दक्षिणादिशं [] साधयेदिति “कृत्तिका श्रवणः पुष्यश्चित्रास्वात्यो- र्शदन्तरम् । एतत् प्राच्या दिशो रूपं युगमात्रोदिते पुरः” इति । अथ चित्रास्वात्योर्यदन्तरे प्राचोत्युक्तं
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🔗 इससे बने/आरम्भ होने वाले शब्द (समास व व्युत्पन्न)
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬