🕉️ 23 November 2026, Monday · 01:49:16 PM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

दिनचर्या
dinacaryā
🟠 शब्दसागर🔵 मोनियर-विलियम्स🟢 वाचस्पत्यम्
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
दिनचर्या संज्ञा स्त्री॰ [सं॰] दिनभर का काम धंधा । दिन भर का कर्तव्य कर्म ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
दिन—चर्या f. daily-work, Kathās.
📄 मूल मुद्रित पृष्ठ (478,1)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
दिनचर्य्या ७ त० । भावप्र० उक्ते दिने कर्त्तव्यभेदे यथा “मानवो येन विधिना स्वस्थस्तिष्ठति सर्वदा । तमेव कारयेद्वैद्यो यतः स्वास्थ्यं सदेप्सितम् । दिनचर्य्या निशाचर्य्यां ऋतुचर्यां यथोदिताम् । आचरन् पुरुषः स्वस्थः सदा तिष्ठति नान्यथा” । तत्र स्वस्थस्य लक्षणः माह सुश्रुतः “समदोषः समाग्निश्च समधातुमल- क्रियः । प्रसन्नात्मेन्द्रियमनाः स्वस्थ इत्यभिधीयते” । क्रियात्र कर्म तेन समक्रियः शरीरानुरूपकर्मा । तत्र दिनचर्य्यामाह ब्राह्मे मुहूर्त्ते बुद्ध्येत स्वस्थो रक्षार्थमायुषः । तत्र दुःखप्रशान्त्यर्थं स्मरेद्धि मधुसू- दनम् । दध्यन्नदर्शसिद्धार्थविल्वगोरोचनास्रजाम् । दर्शनं स्पर्शनं कार्य्यं प्रबुद्धेन शुभावहम् । स्वमाननं घृते पश्येत् यदीच्छेत् चिरजीवितम् । आयुष्यमुषसि प्रोक्तं मलादीनां विसर्जनम् । तदत्र कूजनाध्मानोदर- गौरववारणम् । आदिशब्देन वातमूत्रादीनां ग्रहणम् । आटोपशूलौ परिकर्त्तिका च सङ्गः पुरीषल्य तयोर्द्ध- वातः । पुरीषमास्यादथवा निरेति पुरीषवेगेऽभिहते नरस्य । परिकर्त्तिका गुदे परिकर्त्तनवत्पीडा । पुरीषस्य सङ्गो निराधः । ऊर्द्धवातः उद्गाढबाहुल्यम् । वातमूत्रपुरीषाणां सङ्गाध्माने क्लमो रुजा । जठां वातजाश्चान्ये रोगाःस्यु वातनिग्रहात् । वस्तिमेहनयोः शूलं मूत्रकृच्छ्रं शिरोरुजाः । विनामो वङ्क्षणानाह स्याल्लङ्गं मूत्रनिग्रहे । विनामः शरीरस्य नम्रता वङ्क्ष [] स्नानाहः वङ्क्षणस्याकर्षणवत्पीडा । न वेगितोऽन्य- कार्य्यः स्यान्न वेगान् धारयेद् बलात् । कामशोकभ- यक्रोधान् मनोवेगान्विधारयेत् । गुदादिमलमार्गाणां शौचं कान्तिबलप्रदम् । पवित्रकरमाख्यानमलक्ष्मीक्लि पापहृत् । प्रक्षालणं मतं पाण्याः पादयोः शुद्धिकार- णम् । मलश्रमहरं वृष्यं चक्षुपां राजसापहम् । दन्तकाष्ठविधिः भक्षयेद्दन्तपवनं द्वादशाङ्गुलमायतम् । कनिष्ठिकाग्रवत् स्थूलभृज्वग्रन्धि तथाऽव्रणम् । एकैकं घर्षयेद्दन्तं मृदुना कूर्चकेन तु । दन्तशोधनचूर्णेन दन्त- मांसान्यबाधयन् । क्षौद्रत्रिकटुकाक्तेन तैलसिन्धुभवेन वा । चूर्णेन तेजोवत्याश्च दन्तान्नित्यं विशोघयेत् । तेजो- वती (तेजवल्कल) इति लोके प्रसिद्धा । मधूको मधुरे श्रेष्ठः करञ्जः कटुके तथा । निम्बं स्यात्तिक्तके श्रेष्ठः कषाये स्वदिरस्तथा । समयन्तु समालोक्य दोषञ्च प्रकृतिं तथा । यथोचितैरसैर्वीर्य्यैर्युक्तं द्रव्यं प्रयोजयेत् । तेनास्य मुखवैरस्यदन्तजिह्वास्यजा गदाः । रुचिवैशद्य लघुता न भवन्ति भवन्ति च । अर्के वीर्य्यं वटे दीप्तिः करञ्जे विजयो भवेत् । प्लक्षे चैवार्थसम्पत्तिर्वदर्य्यां मधुराशनम् । खदिरे मुखसौगन्ध्यं बिल्वे तु विपुलं धनम् । उदम्बरे तु वाक्सिद्धिराम्रे त्वारोग्यमेव च । कदम्बे तु धृतिर्मेधा चम्पके दृढवाक्श्रुतिः । शिरीषे कीर्त्तिसौभाग्यमायुरारोग्यमेव च । अपामार्गे धृतिर्मेधा प्रज्ञाशक्तिस्तथासने । दाडिम्यां सुन्दराकारः ककुभे कुटजे तथा । जातीतगरमन्दारैर्दुःस्वप्नञ्च विन- श्यति । गुञ्जाकातालहिन्तालं केतकश्च वृहच्छरः । खर्जूरं नारिकेलञ्च सप्तैते तृणराजकाः । तृणराज समुत्पन्नं यः कुर्य्याद् दन्तधावनम् । नरश्चाण्डालयोनिः स्याद्यावद्गङ्गान्न पश्यति । न खादेद् गलताल्वोष्ठजिह्वा दन्तगदेषु तत् । मुखस्य पाके शोथे च श्वासकास वमीषु च । दुर्बलो जीर्णभुक्तश्च हिक्वामूर्च्छामदा- न्वितः । शिरोरुजार्त्तस्तृषितः श्रान्तः पानक्लमान्वितः । अर्द्दितः कर्णशूली च नेत्ररीगी नवज्वरी । वर्ज्जयेद्दन्त- काष्ठन्तु हृदामययुतोऽपि च । अजीर्णभुक्तः न जीर्णं भुक्तं यस्य सः । जिह्वानिर्लेखनं हैमं राजतं ताम्रजं तथा । पाटितं मृदु तत् काष्ठं मृदुपत्रमयं
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬