🕉️ 25 November 2026, Wednesday · 10:07:22 PM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

दुरुधुरा
durudhurā
🟢 वाचस्पत्यम्
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
दुरुधुरा स्त्री जन्मकाले चन्द्रात् द्वितीयद्वादशस्थिते रवि भिन्नग्रहरूपे चान्द्रयोगभेदे तत्स्वरूपभेदफलादिकं वृहज्जा० भट्टोत्पलव्याख्यानयोर्दर्शितं यथा “हित्वार्कं सुनफाऽनफादुरुधुराः स्वान्त्योभयस्थैर्ग्रहैः शीतांशोः कथितोऽन्यथा तु बहुभिः केमद्रुमोऽन्यैस्त्वसौ । केन्द्रे शीतकरेऽथ वा ग्रहयुते केमद्रुमो नेष्यते । केचित् केन्द्रनवांशकेषु च वदन्त्युक्तिः प्रसिद्धा न सा । त्रिंशत्सरूपाः सुनफाऽनफाख्याः षष्टित्रयं दौरुधुरे प्रभेदाः । इच्छावि- कल्पैः क्रमशोभिनीय नीते निवृत्तिः पुनरन्यनीतिः” वृहज्जा० “अथ सुनफानफादुरुधुराकेमद्रुमाख्यं योगचतुष्टयं [] शार्दूलविक्रीडितेनाह हित्वार्कमिति । अर्कमादित्यं हित्वा त्यक्त्वा यदाऽन्यः कश्चिद्ग्रहो भौमादिकः शीतांशो श्चन्द्रात् स्वान्त्योभयस्थो भवति द्वितीयस्थो, द्वादशस्थो, वा द्वितीयद्वादशस्थौ वा द्वौ भवतस्तदा सुनफाऽनफादुरु धुराख्यं योगत्रयं भवति एतदुक्तं भवति अर्कं हित्वा यदाऽन्योग्रहः कश्चिच्चन्द्रात् द्वितीयस्थाने भवति तदा सुनफानामयोगो भवति अथार्कं वर्जयित्वा चन्द्रात् द्वा- दशगो भवति कश्चित्तदा अनफानामयोगो भवति एव’ छन्द्रात् द्वितीयद्वादशगौ ग्रहौ भवतस्तदा दुरुधुरानाम योगो भवति योगत्रयेऽप्यादित्यो यदि द्वितीये द्वादशे वास्थाने भवति तदा योगभङ्गकृद्भवति । किन्तु योगक- र्त्तॄणां मध्ये न गण्यते । एते योगाः बहुभिराचार्यैः कथिताः अन्यथा तु बहुभिः केमद्रुमः उक्तः । अ- थास्य योगत्रयस्याभावे बहुभिरार्यैः केमद्रुमाख्योयो- गोऽभिहितः एतदुक्तं भवति चन्दान्न द्वितीये न द्वादशे कश्चिद्ग्रहो भवति तदां केमद्रुमाख्योयोगो भवति अन्यैस्त्वसाविति अन्येषां गर्गादीनामेवं मतं केन्द्रे जन्मलग्नकेन्द्रे शीतकरे चन्द्रे वा भौमादिग्रहयुते भौमादिग्रहविरहितयोरपि चन्द्राद्द्वितीयद्वादशस्था- नयोः केमद्रुमो न भवति केन्द्रे ग्रहयुते इत्यत्र कैश्चि- च्चन्द्रकेन्द्रमेव केवलं व्याख्यातम् तच्चायुक्तम् चन्द्रकेन्द्रे ग्रहयुते चन्द्रमसोऽपि योगोऽन्तर्भवति शीतकरे ग्रहयुत इत्येतदपार्थकं स्यात् अत्र च भगवान् गार्गिः “व्ययार्थ- केन्द्रगश्चन्द्राद्विना भानुं न चेद्ग्रहः । कश्चित् स्यात् वा विना चन्द्रलग्नात् केन्द्रगतोऽथ वा । योगः केमद्रुमो- नाम तदा स्यादयत्र गर्हिताः । भवन्ति निन्दिंताचारा दा- रिद्र्यापत्तिसंयुताः” तथा च साराबल्याम् “सुनफानफा दुरुधुराः क्रमेण योगा भवन्ति रविरहितैः । वित्तान्त्योभ- यसंस्थैः कैरववनबान्धवाद्विहगैः” एतेन “यदा योगाः केन्द्रे ग्रहवर्जितः शशाङ्कश्च । केमद्रुमोऽतिकष्टः शशिनि च सर्वग्रहादृष्टे” । अन्ये आचार्या नेच्छन्ति वराहमिहि- रस्तु पुनरिच्छत्येव अस्मिन्नर्थे तस्यैव तद्वाक्यम् अन्यथा केमद्रुम इति एवमुक्त्वा परमतगुक्तम् अन्यैरसौ इति “केन्द्रे शीतकरेऽथवा ग्रहयुते केमद्रुमो नेव्यते” स्वल्पजा तकेऽपि । तेन सुनफानफादुरुधुराऽभावे केमद्रुमौक्तः तथा च “रविवर्जं द्वादशगैरनफा चन्द्रद्वितीयगैः सु- नफा । उभयस्थितैर्दुरुधुरा केमद्रुमसंज्ञकोऽतोऽन्यः” । सत्यस्यापि सुनफानफादुरुधुराभावे केमद्रमः तथा च [] “सुनफा त्वनफायोगोदौरुधुरश्चन्द्रसंस्थितक्षेत्रात् । प्राक् पृष्ठतो ग्रहेन्द्रैरुभयगतैस्तेषु रविवर्जम् । केमद्रुमोऽत्र योगोऽन्यथा भवेद्यत्र गर्हितं जन्म” केचित् केन्द्रनवांशके- ष्विति केचिदाचार्याः केन्द्रेषु केचिच्च नवांशकेष्वेतद्यो- गत्रयं वदन्ति यथा चन्द्राद्द्वितीयद्वादशोभयस्थैः ग्रहैः सुनफाद्या योगाव्याख्याताः तथा कैश्चिच्छ्रुतकीर्तिजीव- शर्मप्रभृतिभिः केन्द्रवशास्रवांशकवशाच्च व्याख्याताः
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬