दुरुफ पु० नी० ता० उक्ते योगभेदे । “तम्बीरकुत्थौ दुरुफश्च योगाः स्युः षोडगैषां कथयामि लक्ष्ण” पूत्युद्दिश्य “लग्नात् षष्ठेऽष्टमेऽन्त्ये रिपुररिगृहगो वक्रगो नीच गामी क्रूरैर्युक्तोऽस्तगो वा यदि सुथशिली कूरनीचा- [] रिभस्थैः । अनीक्षमाणस्तनुमस्तभागे स्थितः शुभो- च्चादिपदैश्च शून्यः । क्रूरेसराफी न स वीर्ययुक्तः कार्यं विधातुं न विभुर्यतोऽसौ । चन्द्रः सूर्य्याद्द्वादशे वृश्चि- काद्ये षण्डे नेष्टीऽन्त्ये तुलायां विशेषात् । राशीशेना- दृष्टमूर्तिर्न सर्वैर्दृष्टो ज्ञेयः शून्यमार्गः पदोनः । क्षीणो भान्ते नो शुभो जन्मकाले पुच्छायां वा चन्द्र एवं वि- चिन्त्यः । शुक्ले भौमः कृष्णपक्षेऽर्कसूनुः क्षुद्दृष्ट्युन्दुं वीक्षते नो शुभोऽसौ । शुक्ले दिवा नृगृहगोऽर्कसुतः शशाङ्कं कृष्णे कुजो निशि समर्क्षगतः प्रपश्येत् । दोषा- ल्पतां वितनुतेऽपरथा बहुत्वम् प्रश्नेऽथ वा जनुपि बुद्धिमतोहनीयम्” ।
📄 मूल मुद्रित पृष्ठ (3630-b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।