🕉️ 28 November 2026, Saturday · 07:40:29 AM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

दुर्भिक्ष
durbhikṣa
🟠 शब्दसागर🔵 मोनियर-विलियम्स🟢 वाचस्पत्यम्🟤 शब्दकल्पद्रुम
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
दुर्भिक्ष संज्ञा पुं॰ [सं॰] ऐसा समय जिसमें भिक्षा या भोजन कठिनता से मिले । अकाल । कहत ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
दुर्—भिक्ष n. (rarely m.) scarcity of provisions, dearth, famine, want, distress, TĀr. i, 4, 3; Mn.; MBh. &c.
📄 मूल मुद्रित पृष्ठ (486,2)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
दुर्भिक्ष अव्य० भिक्षायाः अभावः । १ भिक्षाया अभावे । दुर्लभा भिक्षा यत्र प्रा० ब० । यद्देशे यानि शस्यानि जायन्ते तद्देशे तद्द्रव्यस्यानुत्पत्त्या २ तद्द्रव्यालाभसमयभेदे न० तत्- समयभेदसूचकाश्च षष्टिसंवत्सरान्तर्गता वर्षभेदाः ज्योति० त० भविष्यपु० उक्ताः संगृह्य दर्श्यन्ते यथा “राष्ट्रभङ्गश्च दुर्भिक्षं तस्करैरुपपीडनम् । जानी- याद्विग्रहं घोरं प्रमाथिनि १३ वरानने! । “दुर्भिक्षं जा- यते घोरं सर्वोपद्रवसंयुतम् । अनावृष्टिः समाख्याता व्यये २० संवत्सरे प्रिये!” । “क्वचिद्वर्षति पर्जन्यो देशे सं- छिन्नमण्डलः । दुर्भिक्षं सर्वरीवर्षे ३४ व्यवहारे विपर्ययः” । “दुर्भिक्षं जायते सर्वा मेदिनी दुष्यति प्रिये! । प्लवे ३५ प्लवन्ति तोयानि पीडिता मानवा भुवि” । “दुर्भिक्षं जायते घोरं धान्यौषधिप्रपीडनम् । अनले ५० च समाख्याता नात्र कार्य्या विचारणा” । “देशभङ्गः सुदुर्भिक्षं समासात् कथयाम्यहम् । पिङ्गले ५१ चारु पद्माक्षि! दुर्भिक्षं नर्मदातटे” । “दुर्दिक्षं मध्यमं प्रोक्तं [] व्यवहारो न वर्तते । भवेद्वै मध्यमा वृष्टिर्दुर्मतौ ५५ समुपस्थिते” । “दुर्भिक्षं मरणं घोरं धान्यौप्रधिप्रपीड- नम् । पापरोगो भवेद्देवि! रक्ताक्षे ५८ ऽमरवन्दनि”! । “रोगो मरणदुर्भिक्षं विरोधोपद्रवाकुलम् । क्रोधे ५९ तु विषमं सर्वं समाख्यातं हरपिये!” । ५९ “मेदिनी चलते देवि! सर्तभूतं चराचरम् । देशभङ्गश्च दुर्भिक्ष क्षये संक्षोयते प्रजाः । सौराष्ट्रे मालवे देशे दक्षिणे कोङ्कणे तथा । दुर्भिक्षं जायते घोरं क्षये६० संवत्सरे प्रिये!” । क्वचिदद्भुतोत्पातेऽपि दुर्भिक्षं भवति यथा “मांसास्थिनी समादाय श्मशानाद् गृध्रवायसाः । श्वा शृगालोऽथ वा मध्ये पुरस्य प्रविशन्ति चेत् । विकि रन्ति गृहादौ च श्मशानं सा मही भवेत् । चौरेण हन्यते लोकः परचक्रसमागमः । सग्रामश्च महा घोरो दुर्भिक्षं मरकस्तथा । अद्भतानि प्रसूयन्ते तत्र देशस्य विद्रवः । अकाले फलपुष्पाणि देशविद्रवकारणम्” इति ज्योत० त० । तत्र कालेऽशौचिभ्यो भिक्षाग्रहणे दोषाभाव इति हारलताप्रभृतयः । कौर्मे “सद्यः- शौचं समाख्यातं दुर्भिक्षे चाप्युपप्लवे । डिम्बाहवे हतानाञ्च विद्युता पार्थिवैर्द्विजैः । सद्यः शौचं समा- ख्यातं शापादिमरणे तथा” इति शु० त० “दुर्भिक्षयुक्तराष्ट्रे च मृतके सूतकेऽपि वा । नियमाश्च न दुष्यन्ति दानधर्म- रतेष्वपि । दीक्षिताश्चाभिषिक्ताश्च व्रततीर्थपरास्तथा । दीक्षाकाले विवाहादौ देवद्रोण्यां निमन्त्रिते । पूर्वसङ्क- ल्पिते चापि नाशौच मृतसूतके” इति गारुडे २२६ अ० “शकटः शाकिनी गावो जालमास्कन्दनं वनम् । अनूपः पर्वतो राजा दुर्भिक्षे नव वृत्तयः” चाणक्याः “द्वाविमौ पुरुषौ लोके सूर्यमण्डलभेदिनौ । दातान्नस्य तु दुर्भिक्षे सुभिक्षे वस्त्रहेमदः” । “एकग्रामे चतुःसाले दुर्भिक्षे राष्ट्र विप्लवे । पतिना नीयमानायाः पुरःशुक्रो न दुष्यति” ज्यो० त० ।
📄 मूल मुद्रित पृष्ठ (3640-b)
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
दुर्भिक्षं, क्ली, (भिक्षाया अभावः ।) भिक्षाया अप्राप्तिकालः । अकाल इति भाषा । यथा, “दुर्भिक्षमल्पं स्मरणं चिराय ।” इत्युद्भटः ॥ भिक्षायाः प्रायो निष्फलत्वमित्यव्ययीभावसमासः । यद्देशे यत्काले तद्देशतत्कालयोग्यशस्यादिकं न जायते तद्देशे तदा याच्यमानद्रव्यालाभात् दुर्भिक्षं जातमिति व्यवह्रियते सद्भिरिति । तत्- कारकवर्षाणि यथा, -- “राष्ट्रभङ्गश्च दुर्भिक्षं तस्करैरुपपीडनम् । जानीयाद्बिग्रहं घोरं प्रमाथिनि वरानने ! ॥ १३ ॥ दुर्भिक्षं जायते घोरं सर्व्वोपद्रवसंयुतम् । अनावृष्टिः समाख्याता व्यये संवत्सरे प्रिये ! ॥ २० ॥ क्वचिद्बर्षति पर्ज्जन्यो देशे संछिन्नमण्डलः । दुर्भिक्षं सर्व्वरीवर्षे व्यवहारो विपर्य्ययः ॥ ३४ । दुर्भिक्षं जायते सर्व्वा मेदिनी दुष्यति प्रिये ! । प्लवे प्लवन्ति तोयानि पीडिता मानवा भुवि ॥ ३५ ॥ [] दुर्भिक्षं जायते घोरं धान्यौषधिप्रपीडनम् । अनले च समाख्याता नात्र कार्य्याविचारणा ॥ ५० देशभङ्गः सुदुर्भिक्षं समासात् कथयाम्यहम् । पिङ्गले चारुपद्माक्षि ! दुर्भिक्षं नर्म्मदातटे ॥ ५१ ॥ दुर्भिक्षं मध्यमं प्रोक्तं व्यवहारो न वर्त्तते । भवेद्वै मध्यमा वृष्टिर्दुर्म्मतौ समुपस्थिते ॥ ५५ ॥ दुर्भिक्षं मरणं घोरं धान्यौषधिप्रपीडनम् । पापरोगो भवेद्देवि ! रक्ताख्येऽमरवन्दिनि ! ॥ ५८ ॥ रोगो मरणदुर्भिक्षं विरोधोपद्रवाकुलम् । क्रोधे तु विषमं सर्व्वं समाख्यातं हरप्रिये ! ॥ ५९ ॥ मेदिनी चलते देवि ! सर्व्वभूतं चराचरम् । देशभङ्गश्च दुर्भिक्षं क्षये सङ्क्षीयते प्रजा ॥ सौराष्ट्रे मालवे देशे दक्षिणे कोङ्कणे तथा । दुर्भिक्षं जायते घोरं क्षये संवत्सरे प्रिये ! ॥” ५० ॥ इति ज्योतिस्तत्त्वधृतषष्टिवर्षान्तर्गतवर्षविशेष- फलबोधकभविष्यपुराणीयवचनानि ॥ * ॥ अद्भुतेऽपि दुर्भिक्षं भवति यथा, -- “मांसास्थिनी समादाय श्मशानाद्गृघ्रवायसाः । श्वा शृगालोऽथवा मध्ये पुरस्य प्रविशन्ति चेत् ॥ विकिरन्ति गृहादौ च श्मशानं सा मही भवेत् । चौरेण हन्यते लोकः परचक्रसमागमः ॥ संग्रामश्च महाघोरो दुर्भिक्षं मरकन्तथा । अद्भुतानि प्रसूयन्ते तत्र देशस्य विद्रवः ॥ अकाले फलपुष्पाणि देशविद्रवकारणम् ॥” इति ज्योतिस्तत्त्वम् ॥ * ॥ “तत्राशौचिभिक्षाग्रहणे दोषाभाव इति हार- लताप्रभृतयः ॥ कौर्म्मे । सद्यःशौचं समाख्यातं दुर्भिक्षे चाप्युपप्लवे । डिम्बाहवे हतानाञ्च विद्युता पार्थिवैर्द्बिजैः ॥ सद्यःशौचं समाख्यातं शापादिमरणे तथा ॥” इति शुद्धितत्त्वम् ॥ अपि च गारुडे २२६ अध्याये । “दुर्भिक्षयुक्तराष्ट्रे च मृतके सूतकेऽपि वा । नियमाश्च न दुष्यन्ति दानधर्म्मरतास्तथा ॥ दीक्षिताश्चाभिषिक्ताश्च व्रततीर्थपरास्तथा । दीक्षाकाले विवाहादौ देवद्रोण्यां निमन्त्रिते ॥ पूर्व्वसङ्कल्पिते चापि नाशौचं मृतसूतके ॥”
📄 मूल मुद्रित पृष्ठ (2-732-c)
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🔗 इससे बने/आरम्भ होने वाले शब्द (समास व व्युत्पन्न)
🔁 जिनके अर्थ में "दुर्भिक्ष" आता है (11)
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬