दुर्लेख्य न० दुष्टं लेख्यम् । गर्हिते लेख्यपत्रे । “देशान्तरस्थे दुर्लेख्ये नष्टोन्मृष्टे हृते तथा । भिन्ने दग्धे तथा छिन्ने लेख्यमन्यत्तु कारयेत्” नार० सर्वैरेतैर्विशेषणैर्व्यवहारा- क्षमता विवक्षिता । दुष्टं लिप्यक्षरपरिलोपेनावाचकतया वा यल्लेख्यं तत्तु दुर्लेख्यं, नष्टं सर्वथा नाशमुपगतम् उन्मृष्टं मसीदोषादिना मृदितलिप्यक्षरम् । यद्यपि दग्धमपि नष्ठमेव तथापि कालमात्रकृता शीर्णता नष्ट- पदेनात्र विवक्षिता । पत्रान्तरकरणञ्चार्थिप्रत्यर्थिनोः पर- स्परसम्प्रतिपत्तौ । विमतौ तु देशान्तरस्थपत्रानयनाय कालो देयोऽध्वापेक्षया व्यवहारो वाऽप्रवर्तनीयः दुर्ले- ख्यादौ तु सम्प्रतिपत्तौ पत्रान्तरकरणमन्यथा व्यवहार स्याप्रवृत्तिरेवेत्यवसेयं साक्षिषु सत्सु तैरेव निर्णयः” । तथाच नारदः “लेख्ये देशान्तरस्थे तु शीर्णे दुर्लिखिते हृते । सतस्तत्कालकरणमसतो द्रष्टृदर्शनमिति” वीरमि०
📄 मूल मुद्रित पृष्ठ (3644,b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।