दुहितृ स्त्री दुह--दह वा तृच् । “नप्तृनेष्टृत्वष्टृहोतृ पोतृभ्रातृजामातृमातृपितृदुहितृ” उणा० नि० । स्वज- न्यस्त्रियां स्त्रीसन्ततौ ऋदन्तत्वेऽपि स्वस्रादित्वात् न ङीप् । तृणन्तत्वाभावात् सर्वनामस्थाने परे न वृद्धिः दुहितरौ दुहितर इत्यादि प्रियादिषु पाठात् अस्मिन् शब्देपरे पूर्व्रस्थितस्य उक्त पुंस्कस्त्रीलिङ्गस्य विशेषणशब्दस्य न पुंवत् जातादुहितृकः । “मातुर्दुहितरः शेषमृणा- त्ताभ्य ऋतेऽन्वथः” याज्ञ० । “मात्रा स्वस्रा दुहित्रा वा न विविक्तासनो भवेत्” मनुः । कन्याशब्देऽनुक्तं तद्दान- पात्रफलादिकमधिकमुच्यते । “कृत्वा परीक्षां कान्तस्य वृणोति कामिनी वरम् । वराय गुणहीनाय वृद्धाय ज्ञानिने तथा । दरिद्राय च मूर्खाय रोगिणे कुत्सिताय च । अत्यन्तकोपयुक्ताय चात्यन्तदुर्मुखाय च । जडाय चैव मूर्खाय क्लीव- तुल्याय पापिने । ब्रह्महत्यां लभेत् सोऽपि यः स्वकन्यां ददाति च । शान्ताय गुणिने चैव यूने च विदुषेऽपि च । वैष्णवाय सुतां दत्त्वा दशवापीफलं लभेत्” । कन्याविक्रये दोषो यथा “यः कन्यापालनं कृत्वा करोति विक्रयं यदि । विपत्तौ धनलोभेन कुम्भीपाकं स गच्छति । कन्यामूत्रपुरीषञ्च तत्र भक्षति पा- तकी । कृमिभिर्दंशितः काकैर्यावदिन्द्राश्चतुर्दश । मृ- तश्च व्याधयोनौ च स लभेज्जन्म निश्चितम् । विक्रीणीत [] मांसभारं वहत्येव दिवानिशम्” कन्यादानफलं यथा “दशवापीसमा कन्या दीयते व्राह्मणाय या । वेद- ज्ञाय पवित्राय चाप्रतिग्रहशालिने । सन्ध्यावते वेद पाठकारिणे सत्यवादिने । अस्मै प्रदत्ता कन्या च दश वापीफलप्रदा । त्रिसन्ध्याकारिणे सत्यवादिने गृह- शालिने । वेदज्ञाय च विप्राय दत्ताष्टफलदायिनी । प्रतिग्रहगृहीताय सन्ध्याहीनाय नित्यशः । मूर्खाय दत्ता कन्या च सा चतुःफलदायिनी । परदारगृही- ताय याजकाय द्विजाय च । शठाय सन्ध्याहीनाय वाप्येकफलदा सुता । त्यक्तसन्ध्याय गायत्रीविही- माय शठाय च । विप्रोद्भवाय दत्ता सा वाप्यर्द्धफलदा सुता । पापिने शूद्रजाताय विप्रक्षेत्रोद्भवाय च । दत्ता चाण्डालतुल्याय कन्या सा नरकप्रदा । विष्णुभक्ताय विदुषे विप्राय सत्यवादिने । जितेन्द्रियाय दत्ता या विंशद्वापीफलप्रदा । षष्टिवर्षसहस्राणि दिव्यरूपं विधाय च । एवम्भूताय दत्त्वा च मोदते विष्णुमन्दिरे । दत्त्वा कन्यां सुशीलाञ्च हराय हरयेऽथ वा । नारा- यणस्वरूपञ्च भवेदेव श्रुतौ श्रुतम् । विष्णुभक्तो यदा कन्यां ददाति विष्णुप्रीतये । स लभेद्धरिदास्यञ्च ध्रुवं विप्रोद्भवाय च” ब्रह्म० वै० प्र० ख० ।
📄 मूल मुद्रित पृष्ठ (3654-a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।