दु(द्रु)ह्यु पु० शर्मिष्ठायां जाते ययातिपुत्रभेदे । “अन्वगृ- ह्णात् प्रजां सर्वां ययातिरपराजितः । तस्य पुत्रा महेष्वासाः सर्वे समुदिता गुणैः । देवयान्यां महाराज! शर्मिष्ठायाञ्च जज्ञिरे । देवयान्यामजायेतां यदुस्तुर्वसु रेव च । दुह्युश्चानुश्च पूरुश्च शर्मिष्ठायां प्रजज्ञिरे” मा० आ० ७५ अ० हरिवंशे तु ३० अ द्रुह्युरिति अणुरिति पाठः । लिपिकरप्रमादात् द्विधा पाठः “तेषां ययातिः पञ्चानां विजित्य वसुधामिमाम् । देवयानीमुशनसः सुतां भार्य्यामवाप सः । शर्मिष्ठामासुरीञ्चैव तनयां वृषपर्वणः । यदुञ्च तुर्वसुञ्चैव देवयानी व्यजायत । द्रुह्युञ्चाणुञ्च पूरुञ्च शर्मिष्ठा वार्षपार्वणी” । तस्य राज्यदेशश्च तत्रैव अ० उक्तो यथा “सप्तद्वीपां ययातिस्तु जित्वा पृथ्वीं ससागराम् । व्यभ- जत् पञ्चधा राजा पुत्राणां नाहुषस्तदा । दिशि दक्षिण पृर्वस्यां तुर्वसुं मतिमासृपः । प्रतीच्यामुत्तरस्याञ्च द्रु- [] ह्युञ्चानुञ्च नाहुषः । दिशि पूर्वात्तरस्यान्तु यदुं श्रेष्ठं न्ययोजयत् । मध्ये पूरुञ्च राजानमभ्यषिञ्चत् स नाहुषः । तैरियं पृथिवी सर्वा सप्तद्वीपा सपत्तना । यथाप्रदेशम- द्यापि धर्मेण परिपाल्यते” । तद्वंशवर्णनञ्च तत्रैव ३२ अ० यथा “द्रुह्योश्च तनयो राजन्! बभ्रुः सेतुश्च पार्थिवः । अङ्गारः सेतुपुत्रश्च मरुता पतिरुच्यते । यौवनाश्वेन समरे कृच्छ्रेण निहतो बली । युद्धं सुमहदस्यासीन् मासान् परि चतुर्दश । अङ्गारस्य तु दायादो गान्धारी नाम पार्थिवः । ख्यायते यस्य नाम्ना वै गान्धारविषयो महान् । गान्धारदेशजाश्चैव तुरगा वाजिनां वराः” तस्य पितुर्ययातेर्जराया अग्रहणे शापकथा भा० शा० ८४ अ० “ययातिरुवाच । “यत्त्वं मे हृदयाज्जातो वयः स्वं न प्रयच्छसि । तस्माद्द्रुह्यो! प्रियः कामो न ते सम्पत्स्यते क्वचित् । यत्राश्वरथमुख्यानामश्वानां स्याद्गतं न च । हस्तिनां पीठकानाञ्च गर्दभानान्तथैव च । वस्तानाञ्च गवा- ञ्चैव शिविकायास्तथैव च । उडुपप्लवसन्तारो यत्र नित्यं भविष्यति । अराजशब्दभाजन्तं तत्र प्रापस्यसि सान्वयः”
📄 मूल मुद्रित पृष्ठ (3654-b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।