दूर्वासोम पु० सुश्रुतोक्ते रसायनाङ्गे सोमलताभेदे यथोक्तं तत्र उत्तरतन्त्रे “अंशुमान्मुञ्जवांश्चैव चन्द्रमा रजतप्रभः । दूर्वा- सोमः कनीयांश्च श्वेताक्षः कनकप्रभः । प्रतानवांस्ताल- वृन्तः करवीरोंऽशवानपि । स्वयस्प्रभो महासोमो यश्चापि गरुडाहृतः । गायत्रस्त्रैष्टुभः पाङ्क्तो जागतः शाङ्करस्तथा । अग्निष्टोमो रैवतश्च यथोक्त इति संज्ञितः । गायत्र्या त्रिपदा युक्तो यश्चोडुपतिरुच्यते । एते सोमाः समाख्याता वेदोक्तैर्नामभिःपुनः । सर्वेषामेव चैतेषामेको विधिरुपासने । सर्वे तुल्यगुणाश्चैव विधानं ते [] वक्ष्यते” । “अतोऽन्यतमं सोममुपयुयुक्षः सर्वप्रकारपरि- चारकोपेतः प्रशस्तदेशे त्रिवृतमगारं कारयित्वा हृतदोषः प्रतिसंसृष्टः प्रशस्तेषु तिथिकरणमुहूर्त्तनक्षत्रेषु अशुं- मन्तमादायाध्वरकल्पेनाहृतमभिषुतमभिहुतं चान्तरान्तरा- कृतमङ्गलः सोमकन्दं सुवर्णसूच्या विदार्य्य पयोगृह्णीया- त्सौवर्णे पात्रेऽञ्जलिमात्रं, ततः सकृदेवोपयुञ्जीत नास्वा- दयंस्ततौपस्पृश्य शेषमप्स्ववसाद्य यमनियमाभ्यामात्मानं संयोज्य वाग्यतोऽभ्यन्तरतः सुहृद्भिरुपास्यमानो विहरेत्” ।
📄 मूल मुद्रित पृष्ठ (3659-a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।