दृग्ज्या स्त्री सू० सि० उक्तायां दिनमानादिज्ञानार्थं शङ्कुच्छायो- पयोगिन्या दृष्टियोग्यायां दृग्वृत्तक्षेत्रस्थजावायाम् यथोक्तं [] तत्र “त्रिज्योदक्चरजार्युक्ता याम्यायां तद्विवर्जिता । अन्त्या नतोत्क्रमज्योना स्वाहोरात्रार्द्धसङ्गुणा । त्रिज्याभक्ता भवेच्छेदो लम्बज्याघ्नोऽथ भाजितः । त्रिभज्यया भवे- च्छङ्कुस्तद्वर्गं परिशोधयेत् । त्रिंज्यावर्गात् पदं दृग्ज्या छायाकर्णौ तु पूर्ववत्” सू० सि० “उत्तरगोले चरोत्पन्नया ज्यया चरज्ययेत्यर्थः पूर्वचरानयने चरज्यायाश्चरजेति सङ्ज्ञोक्तेः । युक्ता त्रिज्यान्त्या स्यात् । याम्यगोले तया चरज्ययोना त्रिज्यान्त्या स्यात् । नतोत्क्रम- ज्योना सूर्योदयाद्दिनगतघट्यो दिनशेषघट्यो वा दिना- र्धान्तर्गता उन्नतसंज्ञास्ताभिरूनं दिनार्धं न तकालो घट्यात्मकस्तस्यासुभ्यो लिप्तास्तत्त्वयमैरित्यादिविधिना मुनयो रन्ध्रयमला इत्याद्युक्तोत्क्रमज्यापिण्डैर्ज्योत् क्रमज्या । पञ्चदशघट्यधिकनते तु पञ्चदशघट्यूननतस्य क्रमज्याखण्डैः क्रमज्या तया युक्ता त्रिज्योत्क्रमज्या भवति । तया हीनेत्यर्थः । स्वाहोरात्रार्द्धसङ्गुणा । गृहीतचरज्यासम्बन्ध्यहोरात्रवृत्तव्यासार्धं द्युज्या तया गुणिता त्रिज्यया भक्ता फलं छेदसंज्ञः स्यात् । अथान- न्तरं छेदो लम्बज्यया गुणितस्त्रिज्यया भाज्यः फलमि- ष्टकाले शङ्कुः स्यात् । तस्य शङ्कोर्वर्गं त्रिज्यावर्गाच्छो- घयेत् । शेषस्य मूलं दृग्ज्या । आभ्यां छायाकर्णौ तु पूर्ववत् पूर्वोक्तरीत्या भवतः । अत्र छायाकर्णौ त्विति कोणच्छायाकर्णसाधनश्लोकान्तभागस्य ग्रहणात् तच्श्लोकोक्तरीत्याभीष्टशङ्कुदृग्ज्याभ्यां छायाकर्णौ सा- ध्यावित्युक्तम् । अत्रोपपत्तिः । याम्योत्तरवृत्तोर्द्ध्वभाग- ग्रहाधिष्ठितद्युरात्रवृत्तसम्पातात् क्षितिजद्युरात्रवृत्तस- म्पातद्वयबद्धोदयास्तसूत्रक्षितिजसम्बद्धयाम्योत्तरवृत्रसूत्र- सम्पातपर्य्यन्तमहोरात्रवृत्ते सूत्रं त्रिज्यानुरुद्धमन्त्या । सा तूत्तरगोले चरज्यायुता त्रिज्या दक्षिणगोले चर- ज्ययोना त्रिज्या उन्मण्डलयाम्योत्तरसूत्रावध्यहो- रात्रवृत्तव्यासार्धे त्रिज्यात्वात् उन्मण्डलस्योत्तर- दक्षिणक्रमेण क्षितिजादूर्ध्वाधःस्थत्वेन तद्यास्योत्तरसूत्र- योर्मध्ये चरज्यात्वाच्च । ग्रहाहोरात्रवृत्ते याम्यो- त्तराहोरात्रवृत्तसम्पातादुभयत्र नतघट्यन्तरेण स्थाने तत्सूत्रं नतकालस्य सम्पूर्णज्या । तन्मध्यादूर्द्धसूत्रं शररूपं नतोत्क्रमज्या । तया हीनान्त्या ग्रहस्थाना- दहोरात्रवृत्ते उदयास्तसूत्रपर्यन्तमृजुसूत्रं त्रिज्यानु- रुद्धमिष्टान्त्या । तत्तुल्या याम्योत्तरोर्ध्वव्यांससूत्रन्तर्गता सा द्युज्यापमाणसाधितेष्टहृतिः । द्युज्यागुणा त्रि- [] ज्याभक्ता फलं छेदः । अस्मात् त्रिज्याकर्णे लम्बज्या कोटिस्तदेष्टहृतिकर्णे काकोटिरित्यनुपातेनेष्टशङ्कुः । अस्माद्दृग्ज्याच्छायातत्कर्णा उक्तरीत्या सिद्ध्यन्तीत्युक्तमु- पपन्नम्” रङ्गंनाथः ।
📄 मूल मुद्रित पृष्ठ (3664-a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।