दृग्लम्बन न० सि० शि० उक्ते ग्रहणदर्शनोपयोगिनि दृक्- क्षेत्रस्थलम्बभेदे यथा “इष्टापवर्त्तितां पृथ्वीं कक्षे च शशिसूंर्ययोः । भित्तौ विलिख्य तन्मध्ये तिर्यग्रेखां तथोर्द्ध्वगाम् । १ तिर्यग्रेखा- युतौ कल्प्यं कक्षार्या क्षितिजं तथा । ऊर्द्ध्वरेखायुतौ खार्धं दृगूज्याचापांशकैर्नतौ । कृत्वार्केन्दू समुत्पत्तिं लम्बनस्य प्रदर्शयेत् । एक भूमध्यतः सूत्रं नयेच्चण्डांशु- मण्डलम् । द्रष्टुर्भूपृष्ठगादन्यद्दृष्टिसूत्रं तदुच्यते । कक्षायां सूत्रयोर्मध्ये यास्ता लम्बनलिप्तिकाः । गर्भसूत्रे सदा स्यातां चर्न्द्रार्कौ समलिप्तिकौ । दृक्सूत्राल्लम्बितश्च- न्द्रस्तेन तल्लम्बनं स्मृतम् । दृग्गर्भसूत्रयोरैक्यात् खमध्ये नास्ति लम्बनम्” । “यत्र तत्र नतादर्कादधश्चन्द्रावलम्ब- नम् । तद्दृग्वृत्तेऽन्तरं चन्द्रभान्वोः पूर्वापरं च तत् । पूर्वापरं च याम्यीदग्जातं तेनान्तरद्वयम् । अत्रापमण्डलं प्राची तत्तिर्यग्दक्षिणोत्तरा । यत् पूर्वापरभावेन लम्ब- नाख्यं तदन्तरम् । यदान्योत्तरभावेन नतिसंज्ञं तदु- च्यते । नतिलिप्ता भुजः कर्णो दृग्लम्बनकलास्तयोः । कृत्यन्तरपदं कोटिः स्फुटलम्बनलिप्तिकाः । परलम्बन- लिप्ताघ्नी त्रिज्याप्ता रविदृग्ज्यका । दृग्लम्बनकलास्ताः स्युरेवं दृक्क्षेपतो नतिः । गत्यन्तरस्य तिथ्यंशः परल- म्बनलिप्तिका । गतियोजनतिथ्यशः कुदलस्य यतो मितिः । स्युर्लम्बनकला नाड्यो गत्यन्तरलवोद्धृताः । प्रागग्रतो रवेश्चन्द्रः पश्चात् पृष्ठेऽवलम्बितः” सि० शि० ।
📄 मूल मुद्रित पृष्ठ (3664,b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।