दृशि(शी) स्त्री दृश--भावे कि वा ङीप् । १ दृष्टौ २ प्रकाशे च “द्रष्टा दृशिमात्रः शुद्धोऽपि प्रत्ययानुपश्यः” पात० सू० । “दृ- शिमात्र इति दृक्शक्तिरेव विशेषणेन परामृष्टेत्यर्थः । स पुरुषो बुद्धेः प्रतिसंवेदी बुद्धेर्न सरूपोनात्यन्तं विरूप इति न तावत् सरूपः कस्मात्? ज्ञाताज्ञातविषयत्वात् परिणामिनी हि बुद्धिस्तस्याश्च विषयोगवादिर्घटादि र्ज्ञातश्चाज्ञातश्चेति परिणामित्वं दर्शयति । कस्मात्? न हि बुद्धिश्च नाम पुरुषविषयश्च स्यादगृहीता चेति सिद्धं पुरुषस्य सदा ज्ञातविषयत्वं ततश्चापरिणामित्व- मिति । किञ्च परार्था बुद्धिः संहत्यकारित्त्वात् स्वार्थः पुरुष इति । तथा सर्वार्थाध्यवसायकत्वात् त्रिगुणा बुद्धिस्त्रिगुणत्वादचेतनेति गुणानान्तूपद्रष्टा पुरुष इत्यतो न सरूपः । अस्तु तर्हि विरूप इति नात्यन्तं विरूपः, [] कस्मात्? शुद्धोऽप्यसौ पश्यन्नतदात्मापि तदात्मक इव प्र्त्यवभासते । तथा चोक्तम् अपरणामिनी हि भोक्तृ शक्तिरप्रतिसंक्रमा च परिणामिन्यर्थे प्रतिसंक्राम्येव तद्- वृत्तिमनुपतति । तस्याश्च प्राप्तचेतनानुग्रहरूपाया बुद्धिवृत्तेरनुकारमात्रतया बुद्धिकृत्यविशिष्टा हि ज्ञान वृत्तिरित्याख्यायते” भा० । सूर्यप्रकाशयोरिव द्रष्टृदृश्यो र्धर्मधर्मिणोरैक्यात् ३ चेतने पुरुषे च “दृशिस्वरूपो गग- नोपमोमतः” । “तदभावात् संयोगाभावोहानं तद् दृशेः कैवल्यम्” पात० सू० “मिथ्यादर्शनस्याभावात् बुद्धिपुरु- षसंयोगाभावः आत्यन्तिको बन्धनोपरम इत्यर्थः एत- द्धानं तद् दृशेः कैवल्यं पुरुषस्यामिश्रीभावः पुनरसंयोगो गुणैरित्यर्थः । दुःखकारणनिवृत्तौ दुःखोपरमो हानं तदा सरूपप्रतिष्ठः पुरुष इत्युक्तम्” भा० दृश--इक् । ४ दृशधातौ “दृशेरनालोचने कङ् च” पा०
📄 मूल मुद्रित पृष्ठ (3671-b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।